________________
भाष्यगाथाः १४५७-६३] प्रथम उद्देशः ।
४३५ तं' मदेन पूर्णितचेतनं सत् सुखं 'हन्तुं' विनाशयितुम् , सुखेन तद् व्यापाद्यत इति भावः । उक्तञ्च
अतिरागप्रणीतान्यतिरभसकृतानि च ।
तापयन्ति नरं पश्चात् , क्रोधाध्यवसितानि च ॥ यतश्चैवमतः सर्व एव मिलिताः सन्तः प्रष्टव्याः ॥ १४५९ ॥ अत्रैव प्रायश्चित्तमाह
आयरियअवाहरणे, मासो वाहित्तऽणागमे लहुओ।
वाहित्ताण य पुच्छा, जाणगसिढे तओ गमणं ॥१४६०॥ आचार्या गणं न व्याहरन्ति-नामन्त्रयन्ते मासलघु । शिष्य-प्रतीच्छक-तरुण-स्थविराणामन्यतमान् विशेप्यामन्त्रयन्ते तदाऽपि मासलधु । तेऽपि च व्याहृताः सन्तो यदि नागच्छन्ति तदाऽपि मासलघु । व्याहृत्य च सर्वमपि गणं पृच्छा कर्तव्या, यथा-कतरत् क्षेत्रं प्रत्युपेक्षणीयम् ? |10 ततो ज्ञायकेन-क्षेत्रस्वरूपज्ञेन शिष्टे-कथिते सति गमनं क्षेत्रप्रत्युपेक्षकैः कर्तव्यम् ॥१४६० ॥ आमन्त्रणस्यैव विधिमाह
थुइमंगलमामंतण, नागच्छइ जो व पुच्छिओ न कहे।
तस्सुवारिं ते दोसा, तम्हा मिलिएसु पुच्छिज्जा ||१४६१।। [ओ.नि. १३८] आवश्यके समापिते 'स्तुतिमङ्गलं कृत्वा' तिस्रः स्तुतीर्दत्त्वेति भावः । सर्वेषामपि साधूना-15 मामन्त्रणं कर्त्तव्यम् । कृते चामन्त्रणे यः कश्चिद् नाऽऽगच्छति आगतो वा क्षेत्रखरूपं पृष्टः सन् न कथयति तदा मासलघु, तथा तस्योपरि 'ते दोषाः' स्तेनश्वापदादयो भवन्ति ये तत्र गतानां भविष्यन्ति । तस्माद् मिलितेषु सर्वेष्वपि पृच्छेत् , उपलक्षणत्वात् सर्वेऽपि च कथयेयुः ॥१४६१॥ अत्रैव मतान्तरमुपन्यस्य दूषयन्नाहकेई भणंति पुट्वि, पडिलेहिय एवमेव गंतव्वं ।।
20 तं तु न जुजइ वसहीफेडण आगंतु पडिणीए ।।१४६२॥ ओ.नि.१३९) केचिद् भणन्ति--'पूर्व' प्राक् प्रत्युपेक्षिते क्षेत्रे एवमेव गन्तव्यम् न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेषणीया इति, तत् तु 'न युज्यते' न घटते । कुतः ? इत्याह-वसतेः कदाचित् स्फेटनं कृतं भवेत् , आगन्तुको वा प्रत्यनीकस्तत्र सम्भवेत् , अतः पूर्वदृष्टमपि क्षेत्रं प्रत्युपेक्षणीयम् ॥१४६२ ॥ अथ कथं प्रष्टव्यम् ? इत्याह
25 कयरी दिसा पसत्था, अमुगी सव्वेसि अणुमए गमणं ।
चउदिसि ति दु एकं वा, सत्तग पणगे तिग जहने ।।१४६३|| ओ.नि.१४०] - यदा सर्वेऽपि साधवो मिलिता भवन्ति तदा गुरवो ब्रुवते-आर्याः ! पूर्णोऽयमस्माकं मासकल्पः, क्षेत्रान्तरं सम्प्रति प्रत्युपेक्षणीयम् , अतः कतरा दिक् साम्प्रतं प्रशस्ता ? । ते ब्रुवते'अमुका' पूर्वादीनामन्यतमा । एवं सर्वेषां यद्यसौ 'अनुमता' अभिरुचिता तदा गमनं कर्तव्यम् । 30 प्रथमं चतसृष्वपि दिक्षु, अथ चतुर्थी कोऽप्यशिवायुपद्रवस्ततस्तिसृषु दिक्षु, तदभावे द्वयोर्दिशोः, तदसत्येकस्यां दिशि गच्छन्ति । ते चैकैकस्यां दिश्युत्कर्षतः सप्त व्रजन्ति, सप्तानामभावे पञ्च, १°तलोचनं मो० ले ॥