________________
प्रथम उद्देशः ।
४३३
भाष्यगाथाः १४४७-५६ ] नोपरंस्यते पन्थानः कर्दमदुर्गमाश्च भविष्यन्तीत्यतिशयज्ञानवशेन परिज्ञाय 'तेन' कारणेन ‘अप्राप्ते' चातुर्मासिके निर्गच्छन्ति । निर्गमनकालं च ज्ञात्वा 'प्रतिचरकान् ' क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयन्ति यथा तेप्वायातेषु सत्सु निर्गमनकाल उपढौकते ॥ १४५२ ॥ तच्च क्षेत्रं द्विधादृष्टपूर्वमदृष्टपूर्वं च, उभयमपि नियमात् प्रत्युपेक्षणीयम्, कुतः ? इति चेद् उच्यते-अप्प डिलेहियदोसा, वसही भिक्खं व दुल्लहं होजा ।
5
बालाइ - गिलाणाण व, पाउग्गं अहव सज्झाओ ।। १४५३ ।। [ ओ. नि. १३० ] अप्रत्युपेक्षिते क्षेत्रे गच्छतामेते दोषाः:- सा पूर्वदृष्टा वसतिः स्फेटिता पतिता वा भवेत्, अन्ये वा साधवस्तस्यां स्थिता भवेयुः, भैक्षं वा दुर्लभं भवेत्, दुर्भिक्षादिभावाद् बालादीनां ग्लानानां वा प्रायोग्यं दुर्लभं भवेत्, स्वाध्यायो वा दुर्लभः स्यात्, मांस-शोणितादिभिरस्वाध्यायिकैराकीर्णत्वात् ॥ १४५३ ॥ यतश्चैवमतः किं विधेयम् ? इत्याह
10
तम्हा पुत्रि पडिलेहिऊण पच्छा विहीए संकमणं ।
पेसे जइ अणापुच्छिउं गणं तत्थिमे दोसा ।। १४५४ ॥ [ ओ.नि. १३१ ] तस्मात् पूर्वं प्रत्युपेक्ष्य क्षेत्रं पश्चाद् विधिना सङ्क्रमणं तत्र कर्त्तव्यम् । अथाप्रत्युपेक्षिते व्रजन्ति ततश्चतुर्लघु, आज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लघु, मिथ्यात्वे चतुर्लघु, यद् वा संयमविराधनादिकं प्रामुवन्ति तन्निप्पन्नं प्रायश्चित्तम् । यदि पुनराचार्यः 'गणं' गच्छमनापृच्छय क्षेत्रप्रत्युपे - 15 क्षकान् प्रेषयति तदा मासलघु । 'तत्र' गणमनापृच्छ्य प्रेषणे इमे दोषाः ॥ १४५४ ॥ तेणा सावय मसगा, ओम सिवे सेहइत्थि पडिणीए ।
थंडिल सहि उट्ठाण एवमाई भवे दोसा ॥ १४५५ ।। [ आं. नि. १३३ ] स्तेना द्विविधाः – शरीरस्तेना उपधिस्तेनाश्च, 'वापदाः' सिंह- व्याघ्रादयः 'मशकाः' प्रतीताः 'अवमं' दुर्भिक्षं 'अशिवं' व्यन्तरकृत उपद्रवः, शैक्षस्य वा तत्र सागारिकः स्त्रियो वा मोहोद्रेक - 20 बहुलाः साधूनुपसर्गयन्ति, प्रत्यनीको वा कोऽप्युपद्रवति, स्थण्डिलानि वा तत्र न विद्यन्ते, वसतिर्वा नास्ति, "उड्डाणे" त्ति उत्थितः उद्वसितः स देशः, एवमादयस्तत्रापान्तराले पथि गच्छतां दोषा भवन्ति ॥ १४५५ ॥ तत्र स्थाने प्राप्तानां पुनरिमे दोषाः -
पञ्चंत तावसीओ, सावय दुब्भिक्ख तेणपउराई |
नियम पट्ठाणे, फेडणया हरियपत्ती य ।। १४५६ ।। [ओ.नि.१३४] 25 स ग्रामः ‘प्रत्यन्तः’ म्लेच्छाद्युपद्रवोपेतः, तापस्यो वा तत्र प्रचुरमोहाः संयमात् परिभ्रंशयन्ति, श्वापदुभयं दुर्भिक्षभयं स्तेनप्रचुराणि च तानि क्षेत्राणि, शैक्षस्यान्यस्य वा कस्यापि साधो - स्तत्र 'निजकाः' खजनास्ते तमुत्प्रत्राजयन्ति, 'प्रद्विष्टो वा' प्रत्यनीकस्तत्र साधू नुपद्रवति, उत्थितो वास ग्रामः स्फेटिता वा सा वसतिः, 'स्फेटितानि वा' विपरिणामितानि तानि कुलानि येषां निश्रया तत्र गम्यते । आह च चूर्णिकृत्
फेडियाणि वा ताणि कुलाणि जेसिं निस्साए गम्मइति ।
“हैरियपत्ती य” ति हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते । अथवा तत्र देशे केषुचिद् गृहेषु 'यमेन प्र° डे० ॥ २ 'लादि वा तत्र न विद्यते मो० ले० ॥ ३ " हरितपण्णी पिकच्छायं
30