SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ४३२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ अत्र प्रव्रज्यादीनि पञ्च द्वाराणि यथा जिनकल्पद्वारे तथाऽत्रापि मन्तव्यानि ॥ १४४६ ॥ अथ विहारद्वारविषयं विधिमभिषित्सुराह निष्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा। आयरिय उवज्झाया, भिक्खू थेरा य खुड्डा य ॥ १४४७ ॥ 6 शिष्याणां निष्पत्तिं कुर्वन्तः 'स्थविराः' गच्छवासिनः साधवः 'विहरन्ति' अप्रतिबद्ध विहारं विदधति । तेषां चेत्थं विहरतामियं 'मर्यादा' सामाचारी । तत्र गच्छवासिनस्तावत् पञ्चविधाः, तद्यथा-आचार्या उपाध्याया भिक्षवः स्थविराः क्षुल्लकाश्चेति ॥ १४४७ ॥ धीरपुरिसपन्नत्तो, सप्पुरिसनिसेविओ अ मासविही । तस्स पडिलेहगा पुण, सुत्तत्थविसारगा भणिया ॥ १४४८ ॥ 10 धीरपुरुषैः-तीर्थकर-गणधरैः प्रज्ञप्तः, सत्पुरुषैश्च-जम्बू-प्रभवादिभिनिषेवितः-अनुष्ठितो मास कल्पविधिः । 'तस्य पुनः' मासकल्पविधेः प्रत्युपेक्षकाः सूत्रार्थविशारदाः साधवो भणिता भगवद्भिः। स पुनर्विहारः शरदादिर्भवति ॥ १४४८ ॥ कथम् ? इति चेद् उच्यते वासावासातीए, अट्ठसु चारो अतो उ सरदाई । पडिलेह-संकमविही, ठिए अ मेरं परिकहेहं ॥ १४४९ ॥ 15 वर्षावासेऽतीते-अतिक्रान्ते 'अष्टसु' ऋतुबद्धमासेषु 'चारः' मासे मासे क्षेत्रान्तरगमनलक्षणो विहारो भवति, अतः शरदादिरयं मन्तव्यः । तत्र च क्षेत्रप्रत्युपेक्षणविधि क्षेत्रान्तरसङ्क्रमणविधि प्रत्युपेक्षिते च क्षेत्रे “ठिए" त्ति स्थितानां सतां या काचिद् मर्यादा तामहं परिकथयिष्यामि ॥ १४४९ ॥ प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराह-- क्षेत्रप्रत्यु निग्गमणम्मि उ पुच्छा, पत्तमपत्ते अइच्छिए वा वि। वाघायम्मि अपत्ते, अइच्छिए तस्स असतीए ॥ १४५० ॥ यत्र वर्षावासः कृतस्ततः क्षेत्राद् निर्गमने 'पृच्छा' किं कार्तिकचतुर्मासे प्राप्ते निर्गन्तव्यम् ? उताप्राप्ते ? आहोश्चिदतिक्रान्ते ? उच्यते-यदि कोऽपि व्याघातस्तदा अप्राप्ते वा अतिक्रान्ते वा निर्गच्छन्ति । 'तस्य' व्याघातस्य 'असति' अभावे प्राप्ते चातुर्मासिकदिने मार्गशीर्षप्रतिपदि निर्गत्य बहिर्गत्वा पारयन्ति ॥ १४५० ॥ कः पुनर्व्याघातः ? इत्याह पत्तमपत्ते रिक्खं, असाहगं पुण्णमासिणिमहो वा । पडिकूल त्ति य लोगो, मा वोच्छिइ तो अईयम्मि ॥१४५१॥ प्राप्ते चातुर्मासिकदिवसे अप्राप्ते वा यद्याचार्याणाम् 'ऋक्षं' नक्षत्रम् 'असाधकम्' अननुकूलं पौर्णमासीमहो वा तदा भवेत् कार्तिकीमहोत्सव इत्यर्थः, तत्र च लोको निर्गच्छतः साधून दृष्ट्वा अमङ्गलं मन्यमानः 'प्रतिकूलाः' 'अस्मन्महोत्सवप्रतिपन्थिनोऽमी मुण्डा येऽस्मिन्नेवंविधे महोत्सवे 30खमुखमस्माकं दर्शयन्ति' इत्येवं ‘मा वक्ष्यति' मा भणिप्यति, ततोऽतीते निर्गन्तव्यम् ॥१४५१॥ पत्ते अइच्छिए वा, असाहगं तेण णिति अप्पत्ते ।। नाउं निग्गमकालं, पडिचरए पेसविति तहा ॥ १४५२ ॥ अथ प्राप्ते अतिक्रान्ते वा निर्गमनकाले नक्षत्रमसाधकम् . उपलक्षणत्वाद् मेघो वा वर्षणाद् पेक्षण 25
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy