SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १४३९-४६] प्रथम उद्देशः । ४३१ साधुं गच्छस्यार्पयन्ति । 'तेऽपि च' गच्छवासिनः "से" तस्य यथालन्दिकग्लानस्य प्राशुकेनान्नादिना सर्वमेव प्रतिकर्म कुर्वन्ति । जिनकल्पयथालन्दिकास्तु निप्प्रतिकर्माणः, ततो ग्लानीभूता अपि न चिकित्सादि कारयन्ति । तथा ये स्थविरा यथालन्दिकास्ते 'एकैकप्रतिग्रहकाः' प्रत्येकमेकप्रतिग्रहोपेताः 'सप्रावरणाः सवस्त्राश्च भवन्ति । ये पुनरमीषां मध्ये जिनकल्पे भविष्यन्ति तेषां 'भाज्ये' विकल्पनीये वस्त्र - पात्रे, यदि पाणिपात्रभोजिनः प्रावरणरहिताश्च जिनकल्पिका 5 भविष्यन्ति तदा वस्त्र-पात्रे न गृह्णन्ति, शेषास्तु यथोचितं गृह्णन्ति ॥ ९४४१ ॥ १४४२ ॥ अथ प्रमाणनानात्वं भावयतिगणमाणओ जहन्ना, पुरिसपमाणे पनरस, सहस्ससो चेव उक्कोसा ॥। १४४३ ॥ तिनि गण सयग्गसो य उक्कोसा । 'गणमानतः ' गणमानमाश्रित्य जघन्यतस्त्रयो गणाः, उत्कर्षतस्तु 'शताग्रश: ' शतपृथक्त्वं 10 गणा अमुं कल्पं प्रतिपद्यन्ते । पुरुषप्रमाणे तु जघन्यतः पञ्चदश पुरुषो अस्य कल्पस्य प्रतिपद्य - मानकाः, त्रिषु पञ्चकगणेषु जघन्यतः प्रतिपद्यमानेषु पञ्चदशजनानां भावात् । उत्कर्षतः पुरुषप्रमाणं 'सहस्रशः' सहस्रपृथक्त्वम् || १४४३ || अत्रैव विशेषमाह - पविजमाणगा वा, एकादि हवेज ऊणपक्खेवे । होति जहन्ना एए, सयग्गसो चेव उक्कोसा ॥। १४४४ ॥ प्रतिपद्यमानका एते जघन्या एकादयो वा भवेयुर्न्यनप्रक्षेपे सति यदा ग्लानत्वादिवशतो गच्छस्य स्वसाधुसमर्पणादिना तेषां न्यूनता भवति तदैकादयः साधवस्तत्र प्रवेश्यन्ते येन पञ्चको गच्छः पूर्यत इत्यर्थः । तथा 'शताग्रशः' शतसङ्ख्याः पुरुषा न्यूनप्रक्षेपे उत्कर्षतः प्रतिपद्यमानका भवन्ति ॥ १४४४ ॥ पूर्वप्रतिपन्नानां मानमाह— पुव्व पडिवनगाण वि, उक्कोस - जहन्नसो परीमाणं । कोsिहुतं भणियं, होइ अहालंदियाणं तु ।। १४४५ ।। पूर्वप्रतिपन्नानामप्युत्कर्पतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं यथालन्दिकानां भवति, महाविदेहपञ्चके जघन्यपदवर्त्तिनः कर्मभूमिपञ्चदशके चोत्कर्षपदवर्त्तिनः कोटिपृथक्त्वस्यामीषां प्राप्यमाणत्वात् । भणितैमेतद् भगवद्भिरिति ॥ ९४४५ ॥ गतो यथालन्दकल्पविहारः । अथ गच्छवासिनां मासकल्पविधिमभिधित्सुः प्रस्तावनार्थं प्राक्तनीमेव ( गा० ११३२ ) मूलद्वारगाथामाहपव्वज्जा सिक्खापय, अत्थग्गहणं च अनियओ वासो । निष्पत्ती य विहारो, सामायारी ठिई चैव ॥ ९४४६ ॥ [ वृ.भा. ११३२ ] गच्छस्यार्पयन्ति । 'तेऽपि च' गच्छवासिनः "से" तस्य ग्लानस्य प्राशुकेनान्नादिना कुर्वन्ति सर्वमेव 'प्रतिकर्म' प्रतिजागरणम्, जिनकल्पं प्रतिपत्तुकामास्तु नात्मीयं ग्लानं गच्छस्यार्पयन्तीति भावः । तथा ये स्थविरा यथा भा० ॥ ३ ग्लानं गच्छस्या त० डे० कां० ॥ २°षाः, पञ्चको हि गणोऽमुं कल्पं पञ्चदश भवन्ति । उत्क° भा० । ३ तमेव भ° भा० त० विना ॥ १ °णाः प्रतिपद्यमानकाः । पुरुष मो० ले० विना ॥ प्रतिपद्यते, गणाश्च जघन्यतस्त्रयः, ततः पञ्च त्रिभिर्गुणिताः 'पाः, त्रिषु पञ्चकगणेषु पञ्चदशजनानां त० डे० कां० ॥ 15 20 -25 गच्छवासिनां मासकल्पविधिः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy