________________
४३०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ मध्यमश्च । यावता कालेनोदकाः करः शुष्यति तावान् जघन्यः, उत्कृष्टः पञ्च रात्रिन्दिवानि, जघन्यादूर्द्धमुत्कृष्टादाक् सर्वोऽपि मध्यमः । इह चोत्कृष्टलन्देनाधिकारः । तथा चाह-'उत्कृष्टलन्दचारिणः' उत्कृष्टं लन्दं-पञ्चरात्ररूपमेकस्यां वीथ्यां चरणशीला यस्मात् , ततोऽमी 'उत्कृष्टलन्दानतिक्रमो यथालन्दम् , तदस्त्येषाम्' इति व्युत्पत्त्या यथालन्दिका उच्यन्ते । तदेव च' 5 लन्दमानं 'मध्यम' निकलक्षणममीषां गणप्रमाणम् , त्रयो गणा अमुं कल्पं प्रतिपद्यन्त इत्यर्थः । 'तदेव च' लन्दमानमुत्कृष्टं पञ्चकात्मकमेकैकस्य गणस्य पुरुषाणां प्रमाण द्रष्टव्यम् , एकैकस्मिन् गणे पञ्च पञ्च पुरुषा भवन्तीति भावः ॥ १४३८ ॥
जच्चेव य जिणकप्पे, मेरा सा चेव लंदियाणं पि ।
नाणत्तं पुण सुत्ते, भिक्खायरि मासकप्पे य ॥ १४३९ ॥ 10 यैव च जिनकल्पे 'मर्यादा' सामाचारी भणिता तुलनादिका सैव यथालन्दिकानामपि मन्तव्या।
नानात्वं पुनः सूत्रे भिक्षाचर्यायां मासकल्पे चशब्दात् प्रमाणे चेति ॥ १४३९ ॥ ____ तत्र सूत्रे तावद् नानात्वमभिधातुमाह
पडिबद्धा इअरे वि य, इक्किक्का ते जिणा य थेरा य ।
__ अत्थस्स'उ देसम्मी, असमत्ते तेसि पडिबंधो ॥ १४४०॥ 15 यथालन्दिका द्विधा-गच्छप्रतिवद्धा इतरे च । पुनरेकैके द्विविधाः-जिनाश्च स्थविराश्च ।
तत्रं ये प्रस्तुतकल्पपरिसमाप्तौ जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, ये तु स्थविरकल्पं भूयः समाश्रयिप्यन्ते ते स्थविराः । अथ कुतोऽमीषां गच्छविषयः प्रतिवन्धः ? इत्याह---'अर्थस्य [तु]' तुशब्दस्यावधारणार्थत्वादर्थस्यैव न सूत्रस्य देशः-एकदेशोऽद्याप्यसमाप्तः-न गुरुसमीपे गृहीत इति तस्मिन् ग्रहीतव्ये सति तेषां गच्छे प्रतिबन्धः । आह तमर्थदेशं समाप्यामी विवक्षित20 कल्पं किं न प्रतिपद्यन्ते ? उच्यते-तदानीं हि लग्न-योग-चन्द्रबलादीनि प्रशस्तानि वर्तन्ते,
अन्यानि च प्रशस्तलग्नादीनि दूरकालवर्तीनि, न वा तथाभव्यानि, ततोऽमी अगृहीतेऽप्यर्थदेशे तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राद् बहिर्व्यवस्थिता विशिष्टतरानुष्ठाननिरता अगृहीतमर्थशेष. गृह्णन्ति । अथ भिक्षाचर्यायां नानात्वम्-ग्रामं षड्वीथीः परिकल्प्यैकैकस्यां वीथ्यां पञ्चरात्रिन्दिवानि पर्यटन्ति, एवं पभिर्वीथीभिः पर्यटिताभिर्मासकल्पः समाप्यते । मासकल्पविषयं तु नाना25 त्वमेषामुत्तरत्र भणिप्यते ।। १४४० ॥ अथ स्थविराणां जिनानां च यथालन्दिकानां परम्परं कः प्रति विशेषः ? उच्यते
थेराणं नाणत्तं, अतरंतं अप्पिणंति गच्छस्स । ते वि य से फासुएणं, करिति सव्वं तु पडिकम्मं ॥ १४४१ ॥
एकेकपडिग्गहगा, सप्पाउरणा हवंति थेराओ। 30
जे पुण सिं जिणकप्पे, भय तेसिं वत्थ-पायाणि ॥ १४४२ ॥ स्थेविरकल्पयथालन्दिकानां 'नानात्वं' विशेषोऽयम्-'अतरन्तं' ग्लान्या अशक्नुवन्तं निजं १°श्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, इतरे स्थविराः । अथ भा० ॥ २ स्थविरयथालन्दिकानां 'नानात्वं' विशेषोऽयम्-'अतरन्तः अशक्नुवन्तं-ग्लानीभूतं स्वसाधु