________________
४२९
भाष्यगाथाः १४२९-३८] प्रथम उद्देशः ।
'खस्थाने' खेषु-परिहारविशुद्धिकचारित्रसत्केषु संयमस्थानेषु वर्तमानः गरहारकल्पस्य प्रतिपत्तिं करोति । पूर्वप्रतिपन्नः 'अन्येप्वपि' सामायिकादिसंयमस्थानेषु खसयमस्थानापेक्षया विशुद्धतरेप्वध्यवसायविशेषाद् भवेत् । तेषु चान्येप्वपि संयमस्थानेषु वर्तमानोऽसावनुभूतपूर्व परिहारविशुद्धिकसंयमस्थानत्वाद् 'अतीतनयम्' अतीतार्थाभ्युपगमपरं व्यवहारनय प्राप्य' अङ्गीकृत्य परिहारविशुद्धिक इति प्रोच्यते, निश्चयनयमङ्गीकृत्य पुनर्नोच्यते, संयमस्थानान्तराध्यासना-5 दिति ॥ १४३४ ।। गणनाद्वारे नानात्वमाह
गणओ तिन्नेव गणा, जहन्न पडिबत्ति सयसों उक्कोसा।
उकोस-जहन्नेणं, सतसो च्चिय पुव्वपडिवन्ना ॥ १४३५ ॥ इह गणना द्विधा-गणप्रमाणतः पुरुषप्रमाणतश्च । तत्र यदा किल प्रस्तुतकल्पम्य प्रतिपत्तिः प्राप्यते तदा 'गणतः' गणप्रमाणमाश्रित्य त्रय एव गणा जघन्यतः प्रतिपत्तिमङ्गीकृत्य ज्ञातव्याः । 10 उत्कर्पतः 'शतशः' शतपृथक्त्वसङ्ख्याका गणा अमुं कल्पं युगपत् प्रतिपद्यन्ते । ये तु पूर्वप्रतिपनास्ते उत्कर्पतो जघन्यतश्च 'शतश एव' शतपृथक्त्वसङ्ख्याका एव । नवरं जघन्यपदादुत्कृष्टपदमधिकतरम् ॥ १४३५॥
सत्तावीस जहन्ना, सहस्स उक्कोसतो उ पडिवत्ती।
सयसो सहस्ससो वा, पडिवन्ना जहन्न उकोसा ।। १४३६॥ 13 सप्ता(प्तविंशतिः पुरुपा जघन्यतोऽस्य कल्पस्य प्रतिपत्ति कुर्वन्ति, त्रिपु नवकगणेषु सप्ता(प्त)विंशतेजनानां भावात् । उत्कर्पतः सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः 'शतशः' शतपृथत्त्वम् , उत्कर्षतः 'सहस्रशः' सहस्रपृथत्त्वम् ।। १४३६ ॥ पुरुषप्रमाणत एव विशेषमाह
पडिवजमाण भइया, इक्को विउ होज ऊणपक्खेवे ।
पुचपडिवनया वि उ, भइया इको पुहुत्तं वा ॥ १४३७ ॥ 20 प्रतिपद्यमानकाः पुरुषाः 'भक्ताः' विकल्पिताः । कथम् ? इत्याह–एकोऽपि भवेदूनप्रक्षेपे, अपिशब्दाद् यादयोऽपि । इदमुक्तं भवति–पूर्णायामष्टादशमास्यां यदि केचित् परिहारिकाः कालगता जिनकल्पं वा प्रतिपन्ना गच्छं वा प्रत्यागताः, ये शेषास्ते तमेव परिहारकल्पमनुपालयितुकामाः, ततो यावद्भिः प्रविष्टैर्नवको गणः पूर्यते तावन्तोऽपरे प्रवेशनीया इति कृत्वा प्रतिपद्यमानका एक-यादिसङ्ख्याका अपि भवेयुः । पूर्वप्रतिपन्नका अपि भाज्याः । कथम् ? इत्याह-25 एको वा भवेत् पृथक्त्वं वा । इयमत्र भावना—यदि पूर्णेप्वष्टादशसु मासेप्वष्टौ परिहारविशुद्धिकाः कल्पान्तरं प्रतिपद्यन्ते तत एकः पूर्वप्रतिपन्नः; यदा तु केचित् कल्पान्तरं प्रतिपद्यन्ते केचित्तु व्यादिसङ्ख्याकास्तमेव कल्पमनुपालयन्ति तदा पृथक्त्वं पूर्वप्रतिपन्नकानां भवतीति ॥ १४३७ ॥ गतं गणनाद्वारम् । शेषद्वाराणि तु सर्वाण्यपि जिनकल्पतुल्यवक्तव्यान्येवेत्युक्तं शुद्धपरिहारनानात्वम् । सम्प्रति यथालन्दकल्पनानात्वमाह
30 ___ लंदो उ होइ कालो, उक्कोसगलंदचारिणो जम्हा ।
तं चिय मज्झ पमाणं, गणाण उक्कोस पुरिमाणं ॥ १४३८ ॥ लन्दन्तु भवति काल:, लन्दशब्देन काल उच्यते इत्यर्थः । स पुननिधा-जघन्य उत्कृष्टो