________________
४२८
10
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ पारिहारिकत्वं कल्पस्थितत्वं चेत्यष्टादशभिर्मासैरयं कल्पः समाप्यत इत्यलं प्रसङ्गेन । एतेषां हि खरूपमिहैव षष्ठोद्देशके भाष्यकृतैव न्यक्षेण वक्ष्यते ॥ १४२८ ॥ अमीषामेव स्थितिनानात्वमभिधित्सुः प्राक्तनमेव (गा० १४१३-१४) द्वारगाथाद्वयमाह
खेत्ते काल चरित्ते, तित्थे परियाय आगमे वेए । कप्पे लिंगे लेसा, झाणे गणणा अभिगहा य ॥ १४२९ ॥ पव्यावण मुंडावण, मणसाऽऽवन्ने वि से अणुग्घाया।
कारण निप्पडिकम्मा, भत्तं पंथो य तइयाए ॥ १४३० ॥ अस्य समासार्थो व्यासार्थश्च जिनकल्पिकद्वार इवावगन्तव्यः ॥ १४२९ ॥ १४३० ॥ यस्तु यत्र विशेषस्तत्र तमुपदर्शयति
खेत्ते भरहेरवएसु होति साहरणवजिया नियमा।
ठियकप्पम्मि उ नियमा, एमेव य दुविह लिंगे वि ॥ १४३१ ॥ क्षेत्रद्वारे पारिहारिका भरतैरावतयोरेव भवन्ति, न विदेहेषु । तत्रापि 'संहरणवर्जिताः' अमी न केनापि देवादिनाऽन्यत्र संहियन्ते । एतेन कालद्वारनानात्वमप्युक्तं मन्नत्यम् । तच्चेदम्
काले उत्सर्पिण्यामवसर्पिण्यां वा भवेयुः, न नोअवसर्पिण्युत्सपिण्यां सुपममुपमादिषु वा प्रतिभा15 गेषु । कल्पद्वारे—नियमादमी स्थितकल्पे भवन्ति, प्रथम-चरमतीर्थकरतीर्थव्यतिरेकेणामी पामभावात् । लिङ्गद्वारे—एवमेव 'द्विविधेऽपि' द्रव्य-भावरूपे लिङ्गे नियमादमी भवन्ति ॥१४३१॥ चारित्रद्वारनानात्वमाह--
तुल्ल जहन्ना ठाणा, संजमठाणाण पढम-वितियाणं । तत्तो असंख लोए, गंतुं परिहारियट्ठाणा ॥ १४३२ ॥ ते वि असंखा लोगा, अविरुद्धा ते वि पढम-विइयाणं ।
उपरिं पि ततो असंखा, संजमठाणा उ दोण्हं पि ॥१४३३॥ 'प्रथम-द्वितीययोः' सामायिक च्छेदोपस्थापनीयरूपयोः संयमस्थानयोः सम्बन्धीनि यानि जघन्यस्थानानि तानि परस्परं तुल्यानि, विशुद्धिसाम्यात् । 'ततः' जघन्यसंयमस्थानेभ्यः परतः 'असङ्ख्येयान् लोकान् गत्वा' असङ्ख्येयलोकाकाशप्रदेशप्रमाणेषु संयमस्थानेषु व्यतीतेप्वित्यर्थः 25 परिहारिकस्य-परिहारविशुद्धिकस्य संयमस्थानानि भवन्ति, तान्यपि 'असङ्ख्येया लोकाः' अस
येयलोकाकाशप्रदेशप्रमाणानि । एतानि च 'प्रथम-द्वितीययोरपि' सामायिक च्छेदोपस्थापनीययोर्विशुद्धिविशेषसाम्यादविरुद्धानि, तयोरपि सम्बन्धीनि भवन्तीत्यर्थः । ततः' परिहारिकसंयमस्थानेभ्य उपर्यपि असङ्ख्येयानि संयमस्थानानि 'द्वयोरपि' सामायिक-च्छेदोपस्थापनीययोर्भ.
वन्ति, ततः सामायिक-च्छेदोपस्थापनीये व्यवच्छिद्यते । ततः परं सूक्ष्मसम्परायस्यान्तर्मुहूर्तसमय30 प्रमाणान्यसहयेयानि संयमस्थानानि भवन्ति । तत ऊर्द्धमनन्तगुणमेकं यथाख्यातचारित्रस्य संयमस्थानमिति ॥ १४३२ ॥ १४३३ ॥ अथ प्रकृतयोजनामाह
सट्टाणे पडिवत्ती, अन्नेसु वि होज पुव्वपडियन्नो। अनेसु वि बटुंतो, तीयनयं बुच्चई पप्प ॥ १४३४ ॥