________________
भाप्यगाथाः १४२२-२८] प्रथम उद्देशः ।
४२७ वनं विदध्युः १८ । 'भक्तं पन्थाश्च तृतीयस्याम्' इति द्वारम्-तृतीयस्यां पौरुप्यां भिक्षाकालो विहारकालश्चास्य भवति, शेषामु तु पौरुपीपु प्रायः कायोत्सर्गेणाऽऽस्ते । जङ्घाबले परिक्षीणे पुनः 'अविहरन्नपि' विहारमकुर्वन्नपि नापद्यते कमपि दोषम् , किन्त्वेकत्रैव क्षेत्रे खकल्पस्थितिमनुपालयतीति १९ ॥ १४२४ ॥ व्याख्यातं स्थितिद्वारम् । तव्यास्याने चाभिहितो जिनकल्पविहारः । अथ शुद्धपरिहारिक-यथालन्दिकविहारविषयं विधिमतिदिशन् विशेषं च विभणिषुराहएसेवं कमो नियमा, सुद्धे परिहारिए अहालंदे।
परिहारनाणत्ती य जिणेहि, पडिवजइ गच्छ गच्छो य ॥ १४२५ ॥
विशुद्धिक
यथालन्दएष एव "पवज्जा सिक्खावय" (गाथा ११३२) इत्यादिकः क्रमः शुद्धपरिहारिके यथा- कल्पयोलन्दिके च मन्तव्यः । नवरं परिहारकल्पविषयं नानात्वं 'जिनेभ्यः' जिनकल्पिकेभ्यः सकाशात् , विधिः किम् ? इत्याह-प्रतिपद्यते "गच्छ गच्छो य" ति गच्छद्वयं चशब्दात् तृतीयश्च गच्छः, 10 त्रयो गच्छा जघन्यतोऽप्यमुं कल्पं प्रतिपद्यन्त इत्यर्थः ॥ १४२५ ॥
तवभावणणाणत्तं, करंति आयंबिलेण परिकम्मं ।
इत्तिरिय थेरकप्पे, जिपकप्पे आवकहियाओ ॥१४२६ ॥ तपोभावनायां नानात्व-विशेषः, किम् ? इत्याह-कुर्वन्त्यायामाम्लेन ते भगवन्तः ‘परिकर्म' अभ्यासम् । ते च द्विविधाः-इत्वरा यावत्कंथिकाश्च । प्रस्तुतकल्पपरिसमाप्ती ये भूयः स्थवि-15 रकल्पं प्रतिपद्यन्ते ते इत्वराः, ये तु जिनकल्पं ते यावत्कथिकाः ॥ १४२६ ॥
पुण्णे जिणकप्पं वा, अइंति तं चेव वा पुणो कप्पं ।
गच्छं वा इंति पुणो, तिनि विहाणा सिं अविरुद्धा ॥ १४२७॥ 'पूर्णे' शुद्धपरिहारकल्पे जिनकल्पं वा आयान्ति, तमेव वा परिहारविशुद्धिकं कल्प पालयन्ति, गच्छं वा आगच्छन्ति पुनः । एवं त्रीण्यपि 'विधानानि' प्रकाराः "सिं" तेषां परिहार-30 विशुद्धिकानामविरुद्धानि ॥ १४२७ ॥
इत्तरियाणुवसग्गा, आतंका वेयणा य न भवंति ।
आवकहियाण भइया, तहेव छ ग्गामभागा उ ॥१४२८ ॥ इत्वराणां शुद्धपरिहारकाणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रमावादेव जीतमेतत् । यावत्कथिकानां तु भाज्या उपसर्गादयः, जिनकल्पस्थितानां तेषां तत्सम्भवात् । यथा 25 च जिनकल्पिकानां षड् प्रामभागा भिक्षाटनविषया उक्तास्तथैवामीषामपि । एवं सर्वाऽपि सामाचारी तथैव द्रष्टव्या । विशेषः पुनरयम्-नवपुरुषप्रमाणो गणस्ताक्दमुं कल्पं प्रतिपद्यते, तत्र चत्वारः परिहारिकाः, चत्वारः पुनरनुपरिहारिकाः, एकस्तु तेषां कल्पस्थितः, अनुपरिहारिकाणां कल्पस्थितस्य चैकः सम्भोगः, परिहारिकाणां पृथक् पृथगित्यादिका प्रक्रिया तावन्नेया यावत् षण्मासाः । (ग्रन्थानम्-६५०० । मूलत एवम्- १११००) ततः परिहारिका अनुपरिहा- 30 रिकीभवन्ति, अनुपरिहारिकाः परिहारिकत्वं प्रतिपद्यन्ते, कल्पखितस्तु प्राक्तन एवेत्येवमपि षण्मासाः । ततः कल्पस्थितोऽपि षण्मासान् यावत् परिहारिकत्वं प्रतिपयते, शेषास्तु यथायोगमनु
१°व गमो ता० ॥ २ वि ठाणा सि म° ता० ॥ ३°ल्पं परिपाल' त..