________________
४२६
सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
'इतरद्' इति द्रव्यलिङ्गम् ९ । लेश्या अङ्गीकृत्य 'तिसृषु प्रशस्तलेश्यासु' तैजस्यादिकासु 'प्रथमकाः प्रतिपद्यमानका भवन्ति । 'अप्रथमकास्तु' पूर्वप्रतिपन्नाः 'सर्वास्वपि' शुद्धा ऽशुद्धामु लेश्यासु भवेयुः, केवलमशुद्धासु वर्त्तमानो नात्यन्तसंक्लिष्टासु वर्त्तते न च भूयांसं कालमिति १० ॥ १४२१ ॥ ध्यान-गणनाद्वारद्वयमाह
5
धम्मेण उ पडिवजह, इअरेसु वि होज इत्थ झाणेसु ।
पडिवत्ति सयपुहुत्तं, सहसपुहुत्तं च पडिवन्ने ।। १४२२ ॥
धर्म्येण ध्यानेन तुशब्दस्य विशेषणार्थत्वात् प्रवर्द्धमानेन सता कल्पं प्रतिपद्यते । पूर्वप्रतिपन्नस्तु 'इतरेष्वपि' आर्त्तादिषु ध्यानेषु कर्मवैचित्र्यबलाद् भवेदपि, केवलं कुशलपरिणामस्योद्दामत्वात् तीव्रकर्मपरिणतिजनितः सोऽपि रौद्राऽऽर्त्तभावोऽस्य प्रायो निरनुबन्धो भवति । तदुक्तम्एवं च कुसलजोगे, उद्दामे तिबकम्मपरिणामा ।
10
e-s विभावो, इमस्स पायं निरणुबंधो || (पञ्चव० गा० १५०६) ११ । गणनाद्वारे - 'प्रतिपत्तिं' प्रतिपद्यमानतामङ्गीकृत्योत्कर्षतः शतपृथक्त्वमेकस्मिन् समयेऽमीषां भगवतां प्राप्यते । पूर्वप्रतिपन्नकानां पुनरुत्कर्षतः सहस्रपृथक्त्वम्, कर्मभूमिपञ्चदशकेऽप्येतावतामेवोत्कर्षतः प्राप्यमाणत्वात् । जघन्यतस्तु प्रतिपद्यमानका एको द्वौ त्रयो वेत्यादि । पूर्वप्रतिपन्नास्तु 15 जधन्यतोऽपि सहस्त्रपृथक्तवमेव, महाविदेहपञ्चके सर्वदैवैतावतामवाप्यमानत्वात् । [उत्कृष्टपदेऽपि सहस्त्रपृथक्त्वमेव ] नवरमुत्कृष्टपदाज्जधन्यपदं लघुतरमिति १२ || १४२२ || अभिग्रह प्रव्राजना- मुण्डापनाद्वाराणि व्याचष्टे - भिक्खायरियाईया, अभिग्गहा नेव सो उ पव्वावे ।
――
उवदेसं पुण कुणती, धुवपवावं वियाणित्ता ॥ १४२३ ॥ भिक्षाचर्या - ऋज्वी- गत्वाप्रत्यागतिकादयो गोचरचर्याविशेषास्तदादयोऽभिग्रहा इत्वरत्वादस्य 20 न भवन्ति, जिनकल्प एव हि यावत्कथिकस्तस्याभिग्रहः, तत्र च प्रतिनियता निरपवादाश्च गोचरादयः, अतस्तत्पालनमेवास्य परमं विशुद्धिस्थानम् । यदाह
एयम्मि गोयराई, नियया नियमेण निरववादा य ।
-
तप्पालणं चिय परं, एयस्स विसुद्धिठाणं तु ।। (पञ्चव० गा० १५१०) १३ ।
तथा नैवासावन्यं प्रव्राजयति, उपलक्षणत्वाद् न च मुण्डापयति, कल्पस्थितिरियमिति कृत्वा 35 उपदेशं पुनः 'करोति' प्रयच्छति 'ध्रुवप्रत्राजिनम्' अवश्यप्रत्रजनशीलं विज्ञाय कञ्चन सत्त्वम् । तं च संविद्मगीतार्थसाधूनां समीपे प्रहिणोति १४–१५ ॥ १४२३ ॥
30
अथ “मणसाऽऽवन्ने वि से अणुग्धाय" त्ति द्वारम् - मनसाऽपि सूक्ष्ममतीचारमापन्नस्यास्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चित्तम् १६ । अथ कारण- निष्प्रतिकर्मद्वारे आह— निप्पडिकम्मसरीरा, न कारणं अत्थि किंचि नाणाई |
जंघा लम्मि खीणे, अविहरमाणो वि नाऽऽवजे ॥ १४२४ ॥ निष्प्रतिकर्मशरीरा अमी भगवन्तो नाक्षिमलादिकमप्यपनयन्ति, न वा चिकित्सादिकं कारयन्ति १७ । न च तेषां 'कारणम्' आलम्बनं ज्ञानादिकं किञ्चिद् विद्यते यद्बलात् ते द्वितीयपदासे१ धर्मेण त० डे० कां० ॥ २ व्वाविं ति जाणि ता० ॥