________________
भाष्यगाथाः १४१४-२१] प्रथम उद्देशः ।
पढमे वा वीये वा, पडिवजइ संजमम्मि जिणकप्पं ।।
पुचपडिवन्नओ पुण, अन्नयरे संजमे होजा ॥ १४१८ ॥ 'प्रथमे वा' सामायिकाख्ये 'द्वितीये वा' छेदोपस्थापनीयनाम्नि संयमे वर्तमानो जिनकल्पं प्रतिपद्यते । तत्र मध्यमतीर्थकर-विदेहतीर्थकृत्तीर्थवर्ती प्रथमे संयमे, पूर्व-पश्चिमतीर्थकरतीर्थवर्ती तु द्वितीये इति मन्तव्यम् । पूर्वप्रतिपन्नः पुनरसौ जिनकल्पिकः 'अन्यतरस्मिन्' सूक्ष्मस-5 म्परायादावपि संयमे उपशमश्रेण्यां वर्तमानो भवेत् ३ ॥ १४१८ ॥ तीर्थ-पर्यायद्वारद्वयमाह
नियमा होइ सतित्थे, गिहिपरियाए जहन्न गुणतीसा।
जइपरियाए वीसा, दोसु वि उक्कोस देमूणा ॥ १४१९ ॥ स जिनकल्पिको नियमात् तीर्थे भवति, न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा तीर्थे ४ । पर्यायो द्विधागृहिपर्यायो यतिपर्यायश्च । तंत्र गृहिपर्यायो जन्मपर्याय इत्येकोऽर्थः, तत्र जघन्यत एकोन-10 त्रिंशद् वर्षाणि । यतिपर्याये तु जघन्यतो विंशतिवर्षाणि । उत्कर्षतस्तु 'द्वयोरपि' गृहिपर्याययतिपर्याययोर्देशोनां पूर्वकोटी यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते ५ ॥ १४१९ ॥ अथाऽऽगम-वेदद्वारे आह
न करिति आगमं ते, इत्थीवजो उ वेदों इकतरो।
पुवपडिवन्नओ पुण, होज सवेओ अवेओ वा ।। १४२०॥ 15 न कुर्वन्ति 'ते' जिनकल्पिकाः 'आगमम्' अपूर्वश्रुताध्ययनम् , पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाग्रमनाः सम्यगनुस्मरति ६ । वेदमङ्गीकृत्य-प्रतिपत्तिकाले 'स्त्रीवर्ज एकतरः' पुरुषवेदो नपुंसकवेदो वा असंक्लिप्टस्तस्य भवेत् । पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् । तत्र जिनकल्पिकस्य तद्भवे केवलोत्पत्तिप्रतिषेधादुपशमश्रेण्यां वेदे उपशमिते सत्यवेदत्वम् । तदुक्तम्
20 उवसमसेढीए खलु, वेदे उवसामियम्मि उ अवेदो।
न उ खविए तज्जम्मे, केवलपडिसेहभावाओ ।। ( पञ्चव० गा० १४९८) शेषकालं तु सवेद इति ७ ॥ १४२० ॥ अथ कल्प-लिङ्ग-लेश्याद्वाराण्याह
ठियमट्ठियम्मि कप्पे, लिंगे भयणा उ दव्वलिंगेणं ।
तिहि सुद्धाहि पढमया, अपढमया होज सव्वासु ॥ १४२१॥ स्थितकल्पे-प्रथमा-ऽन्तिमजिनसत्के अस्थितकल्पे च-मध्यमजिन-महाविदेहजिनसत्के अमी भवेयुः ८ । लिङ्गे चिन्त्यमाने भजना तु द्रव्यलिङ्गेन कार्या । तुशब्दो विशेषणे । किं विशिनष्टि ? प्रथमतः प्रतिपद्यमानो द्रव्य-भावलिङ्गयुक्त एव भवति । ऊर्द्धमपि भावलिङ्गं नियमाद् भवति, द्रव्यलिङ्गं तु जीर्णत्वात् चौरादिभिरपहृतत्वाद्वा कदाचिन्न भवत्यपि । उक्तञ्च
इयरं तु जिण्णभावाइएहिँ सययं न होइ वि कयाइ।।
न य तेण विणा वि तहा, जायइ से भावपरिहाणी ॥ (पञ्चव० गा० १५०२) १°र्थकृतां विदेहतीर्थकृतां च प्रथमे, पूर्व भा० ॥ २ °न्न उगुतीसा ता० ॥ ३ तत्र गृहिपर्याये जन्मत आरभ्य जघन्यत एकोनत्रिंश भा० ॥ ४ तत्रोपशमश्रेण्यां वेदे उपशामिते सत्यवेदः । तदु भा० ॥ ५°मादेव भ° भा० ॥
30