________________
४२४
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कारण निप्पडिकम्मे, भत्तं पंथो य तइयाए ॥ १४१४ ॥ कस्मिन् क्षेत्रेऽमी भगवन्तो भवन्ति ? १ एवं काले २ चारित्रे ३ तीर्थे ४ पर्याये ५ आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ अभिग्रहाश्चामीयां भवन्ति न वा ? १३ प्रव्राजनायां १४ मुण्डापनायां च कीदृशी स्थितिः १५ मनसा आपन्ने 5 अपराधे "से" तस्य 'अनुद्धाताः' चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निप्प्रतिकर्म १८ भक्तं पन्धाश्च तृतीयस्यां पौरुप्याम् १९ इति द्वारगाथाद्वयसमासार्थः ॥ १४१३ ॥ १४१४ ॥ व्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतः क्षेत्रद्वारमङ्गीकृत्याह
जम्मण-संतीभावेसु होज सव्वासु कम्मभूमीसु ।
साहरणे पुण भइयं, कम्मे व अकम्मभूमे वा ॥ १४१५ ॥ 10 क्षेत्रविषया द्विधा मार्गणा-जन्मतः सद्भावतश्च । जन्मतो यत्र क्षेत्रेऽयं प्रथमत उत्पद्यते, सद्भावतस्तु यत्र जिनकल्पं प्रतिपद्यते प्रतिपन्नो वाऽस्ति, तत्र जन्म-सद्भावयोरुभयोरप्ययं 'सर्वासु कर्मभूमीषु' भरतपञ्चकैरावतपञ्चक-विदेहपञ्चकलक्षणासु भवेत् । 'संहरणे' देवादिना अन्यत्र नयने पुनः 'भाज्यं' भजनीयम् , कर्मभूमौ वा भवेद् अकर्मभूमौ वा । एतच्च सद्भावमाश्रित्योक्तम् । जन्मतस्तु कर्मभूमावेवायं भवतीति १॥१४१५॥ उक्त क्षेत्रद्वारम् । अथ कालद्वारमाह15
ओसप्पिणीइ दोसुं, जम्मणतो तीसु संतिभावेणं । उस्सप्पिणि विवरीया, जम्मणतो संतिभावे य ॥ १४१६ ॥ नोसप्पिणिउस्सप्पे, भवंति पलिभागतो चउत्थम्मि ।
काले पलिभागेसु य, साहरणे होंति सव्वेसु ॥ १४१७॥ अवसर्पिण्यां जन्मतः 'द्वयोः' सुषमदुःषमा-दुःषमसुषमयोस्तृतीयचतुर्थारकयोर्भवेत् ; सद्भा20 वतस्तु 'त्रिषु' तृतीय-चतुर्थ-पञ्चमारकेषु, दुःषमसुषमाया अन्ते जातो दुःषमायां जिनकल्पं प्रतिपद्यते इति कृत्वा । उत्सर्पिणी विपरीता जन्मतः सद्भावतश्च । इदमुक्तं भवति-उत्सर्पिण्यां दुःषमा दुःषमसुषमा-सुषमदुःषमासु तिसृषु समासु जन्माऽश्नुते, दुःषममुषमा-सुषमदुःषमयोस्तु द्वयोरमुं कल्पं प्रतिपद्यते, दुःषमायां तीर्थ नास्तीति कृत्वा तस्यां जातस्यापि दुःषमसुषमायामेव
कल्पप्रतिपत्तिरिति ।। १४१६ ॥ 25 नोअवसर्पिण्युत्सर्पिणीरूपे अवस्थितकाले चत्वारः प्रतिभागाः, तद्यथा--सुषमसुषमाप्रतिभागः
सुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुःषमसुषमाप्रतिभागश्चेति । तत्राद्यो देवकुरूत्तरकुरुपु, द्वितीयो हरिवर्ष-रम्यकवर्षयोः, तृतीयो हैमवतैरण्यवतयोः, चतुर्थस्तु महाविदेहेषु । तत्र चतुर्थे प्रतिभागे जन्मतः सद्भावतश्चामी भवन्ति, नायेषु त्रिपु प्रतिभागेपु। “काले" ति यो महाविदेहजो जिनकल्पिकः स सुषमसुषमादिषु षट्खपि कालेषु संहरणतो भवेत् । “पलिभागेसु अ" त्ति 37 भरतैरावत-महाविदेहेषु सम्भूताः संहरणतः सर्वेष्वपि प्रतिभागेपु देवकुर्वादिसम्बन्धिषु सम्भवन्तीति २॥ १४१७ ॥ चारित्रद्वारमाह
१°सार्थमाह भा० ॥२ °मयोररकयोः सद्भावतस्तु 'तिसृषु' सुषमदुःषमा-दुःपमसुषमा. दुःपमासु स्थितिर्भवति । उत्सर्पिणी वि भा०॥