________________
भाष्यगाथाः १४०५-१३] प्रथम उद्देशः ।
४२३ दिवसे कर्म, ततस्त्रिपु दिवसेषु तत् पूतिकं गृहमिति कृत्वा न कल्पते, किन्तु कल्पते तद् गृहं सप्तमे दिवसे, अत एव चासौ भूयः सप्तमे दिने तस्यां वीथ्यां पर्यटति ॥ १४०८ ।। __आह यद्येवं तर्हि यदि तस्मिन्नेव दिवसे तं प्रथमवीथीमटन्तं दृष्ट्वा कश्चिदाधाकर्मादि कुर्याद मोदकादिकं वा तदर्थं कृत्वा सप्तमदिवसं यावदव्यवच्छिन्नभावः स्थापयेत् तदानीमसौ कथं जानाति ? कथं वा परिहरति ? इति, उच्यते
चोयग ! तं चेव दिणं, जइ वि करिजाहि कोइ कम्माई ।
न हु सो तं न वियाणइ, एसो पुण सिं अहाकप्पो ॥ १४०९ ॥ हे नोदक ! तस्मिन्नेव दिने यद्यपि कुर्यात् कश्चित् किञ्चिदाधाकर्मादि 'न हि' नैव स तन्न विजानाति, "द्वौ नौ प्रकृत्यर्थं गमयतः” इति वचनाद् जानात्येवासौ श्रुतोपयोगबलेन । आह यद्यसौ श्रुतोपयोगप्रामाण्यादेव जानीते ततः किमर्थमेकं ग्राममनेकभागान् परिकल्प्य पर्यटति ?, 10 उच्यते-कल्प एषः “सिं" अमीषां भगवतां यत् सप्तमे दिवसे भूयः प्रथमवीथीं पर्यटन्ति ॥ १४०९ ॥ ततश्च तं सप्तमे दिवसे प्रथमवीथीमटन्तं दृष्ट्वा सा श्राद्धिका ब्रूयात्
किं नागय त्थ तइया, असबओ मे कओ तुह निमित्तं ।
इइ पुट्ठो सो भगवं, विइयाएसे इमं भणइ ॥ १४१०॥ 'तदानीं यूयं किं नागताः ?, “थ" इति निपातः पूरणार्थः, मया हि त्वन्निमित्तं विपुलं 15 भक्तादिकमुपस्कुर्वन्त्या युष्मदनुपयोगादसद्ध्ययः कृतः' इति पृष्टोऽसौ भगवाँस्तूष्णीक आस्ते इति शेषः । 'द्वितीयादेशे' आदेशान्तरे पुनरिदं भणति ॥ १४१०॥ किं तत् ? इत्याह
अनियंताओ वसहीओ, भमरकुलाणं च गोकुलाणं च ।
समणाणं सउणाणं, सारइआणं च मेहाणं ॥ १४११ ॥ अनियताः 'वसतयः' अवस्थानानि उपलक्षणत्वात् परिभ्रमणानि च । केषाम् ? इत्याह-20 भ्रमरकुलानां च गोकुलानां च श्रमणानां शकुनानां शारदानां च मेघानाम् । इत्थमनियतचर्यया भिक्षाटने श्रद्धावतामपि प्राणिनां नाधाकर्मादिकरणे भूयः प्रवृत्तिरुपजायत इति ॥ १४११ ॥ अथ “सत्त" (गा० १४०१) त्ति पदं विवृणोति__ एक्काए वसहीए, उक्कोसेणं वसंति सत्त जणा।
अवरोप्परसंभासं, चयंति अन्नोन्नवीहिं च ॥ १४१२॥ एकस्यां वसतावुत्कर्षतः सप्त 'जनाः' जिनकल्पिका वसन्ति । ते चैकत्र वसन्तोऽपि परस्परसम्भाषणं 'त्यजन्ति' न कुर्वन्तीत्यर्थः; अन्योन्यवीथीं च त्यजन्ति, यस्मिन् दिने यस्यां वीथ्यामेकः पर्यटति न तस्मिन्नेव तस्यामपर इत्यर्थः ॥ १४१२ ॥ गतं सामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुराह
खेत्ते काल चरित्ते, तित्थे परियाय आगमे वेए । कप्पे लिंगे लेसा, झाणे गणणा अभिगहा य ॥ १४१३ ॥
पव्वावण मुंडावण, मणसाऽऽवने वि से अणुग्घाया । १°गओ त्थ ता० ॥ २°यत्ता वस' ता० ॥
25