________________
१२२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ स्फेटिता-परिहृता वीथी 'तैः' जिनकल्पिकैः, कथम्भूतैः ? 'अनन्तवरज्ञान-दर्शनधरैः' इहानन्तज्ञानमयत्वादनन्ताः-तीर्थकरास्तैरुपदिष्टे वरे-उत्तमे जिनकल्पिकानां ये ज्ञान-दर्शने उपलक्षणत्वात् चारित्रं च तानि धारयन्तीत्यनन्तवरज्ञान-दर्शनधरास्तैः । आह च चूर्णिकृत्
अणंतं नाणं जेसिं ते अणंता-तित्थकरा, तेहिं जिणकप्पियाणं वरं नाणं दंसणं चरित्तं च 5 जं भणियं तद्धरेहिं ति ॥
ततस्ते 'अदीनाः' मनसा अविषण्णाः 'अपरितान्ताः' कायेनानिर्विण्णा द्वितीयां वीथीं क्रमागतां पर्यटितास्तत्र क्षेत्रे । एकवचनप्रक्रमेऽपि बहुवचनाभिधानमन्येषामपि जिनकल्पिकानामेवंविधवृत्तान्तसम्भवख्यापनार्थम् ॥ १४०४ ॥ अत्र चेयं व्यवस्था
पढमदिवसम्मि कम्म, तिन्नि उ दिवसाइँ पूइयं होइ ।
पूतीसु तिसुन कप्पड़, कप्पइ तइओ जया कप्पो ॥ १४०५॥ प्रथमे दिवसे तद् भक्तमुपस्कृतमाधाकर्म । त्रीणि दिवसानि यावद् तद् गृहं पूतिर्भवति, तेषु च त्रिपु पूतिदिनेषु तस्मिन् गृहेऽन्यदपि किञ्चिन्न कल्पते । यदा तु तृतीयः कल्पो गतो भवति तदा कल्पते । कल्पशब्देनेह दिवस उच्यते । उक्तञ्च पञ्चवस्तुकटीकायाम
कल्पते तृतीये 'कल्पे' दिवसे गतेऽपरस्मिन्नहनीति (गा० १४६६)। ॥१४०५॥ 15 इदमेव स्पष्टयन्नाह
. विइयदिवसम्मि कम्म, तिनि उ दिवसाइँ पूइयं होइ ।
तिसु कप्पेसुन कप्पड़, कप्पइ तं छट्ठदिवसम्मि ॥ १४०६॥ यस्मिन् दिवसे स जिनकल्पिकः प्रथमवीथ्यामटन् तया दृष्टस्तदपेक्षया द्वितीये दिवसे तद् भक्तमाधाकर्म, तदनन्तरं त्रीणि दिवसानि पूतिकं भवति, तेषु त्रिषु 'कल्पेषु' दिवसेषु न कल्पते, 20 किन्तु कल्पते तत् षष्ठे दिवसे ॥ १४०६ ॥ अथावगाहिमविषयं विधिमाह
कल्लं से दाहामी, ओगाहिमगं न आगतो अञ्ज ।
तइयदिवसाइतं होइ पूइयं कप्पए छठे ॥ १४०७ ॥ अवगाहिमं दिनद्वयमपि क्षमत इति कृत्वा सा श्राद्धा चिन्तयति-यदर्थमयमवगाहिमपाको . मया कृतः स मुनिरद्य मम गृहाङ्गणं नागतः, अतः कल्ये "से" तस्याहं दास्यामीदमवगाहिममिति 25 विचिन्त्य तद्दानार्थं यदि स्थापयति तदा तत् तृतीयेऽपि दिवसे कर्मैव भवति । यत् पुनस्तस्मि
नेव पाकदिवसे व्यवच्छिन्नभावा सा आत्मार्थितं करोति तदवगाहिममपि भक्तवद् मौलदिवसापेक्षया द्वितीये दिवसे कर्म, तृतीयादिषु तद् गृहं पूतिकम् , षष्ठे तु दिवसे कल्पते ॥ १४०७ ।। एतदेव स्पष्टयति
एमेवोगाहिमगं, नवरं तइयदिवसे वितं कम्मं ।
तिसु पूइयं न कप्पइ, कप्पइ तं सत्तमे दिवसे ॥१४०८ ॥ 'एवमेव' भक्तवद् अवगाहिममपि यत् तद्दिवस एवात्मार्थीकृतं तद् द्वितीये दिवसे कर्म, तृतीयादिषु त्रिपु पूति, षष्ठे तु कल्पते । नवरं यत् तद्दिवसे नाऽऽत्मार्थयति तत् तृतीयेऽपि १°हामि ता० ॥