________________
भाष्यगाथाः १३९५-१४०४] प्रथम उद्देशः ।
४२१ भावः २६ ॥ १३९८ ॥ अथ मासकल्प इति द्वारमभिधित्सुराह- .
कप्पे सुत्त-ऽत्थविसारयस्स संघयण-विरियजुत्तस्स ।
जिणकप्पियस्स कप्पड़, अभिगहिया एसणा निचं ॥ १३९९ ॥ कल्पे जिनकल्पविषयौ यौ सूत्रार्थो तत्र विशारदस्य-निपुणस्य संहननं-शारीरबलं वीर्यधृतिस्ताभ्यां युक्तस्य जिनकल्पिकस्य कल्पते 'अभिगृहीता' साभिग्रहा एषणा ॥ १३९९॥ 5 सा च मासकल्पस्थितिमनुपालयतो भवतीत्यतस्तस्यैव विधिमाह
छन्वीहीओ गाम, काउं एकिकियं तु सो अडइ ।
वजेउं होइ सुह, अनिययवित्तिस्स कम्माई ॥ १४००॥ यत्रासौ मासकल्पं करोति तं ग्रामं 'षड् वीथीः' गृहपतिरूपाः कृत्वा ततः प्रतिदिनमेकैकां वीथीमटति यावत् षष्ठे दिवसे षष्ठीम् । कुतः ? इत्याह-अनियतवृत्तेरपरापरवीथीषु पर्यटतः 10 'कर्मादि' आधाकर्म-पूतिकर्मादिकं 'सुखं वर्जयितुं भवति' सुखेनैव परिहर्तुं शक्यत इति भावः ॥ १४०० ॥ कथं पुनराधाकर्मादिसम्भवो भवति ? इत्याशय तत्सम्भवं दिदर्शयिषुराह
अभिग्गहे दटुं करणं, भत्तोगाहिमग तिनि पूईयं ।
चोदग! एगमणेगे, कप्पो त्ति य सत्तमे सत्त ॥१४०१॥ निगा.१४१२] तस्य भगवतः प्रथमवीथीमटतः कयाचिदगार्या श्रद्धातिरेकाद् घृत-मधुसंयुक्तं भैक्षमुपनीतम् ,15 तेन च 'न कल्पते मे लेपकृता भिक्षा' इति न गृहीतम्, तत एवमादीनभिग्रहान् दृष्ट्या आधाकर्मणः. करणं भवति । तच्च भक्तमवगाहिमं वा भवेत् । त्रीणि च दिवसानि तत् पूतिकम् । नोदकः प्रश्नयति–एकं ग्रामं किमनेकान् भागान् षड्वीथीरूपान् करोति । सूरिराह-कल्प एषोऽमीषां यत् षड् वीथीः कृत्वा सप्तमे दिवसे पर्यटन्ति, सप्त च जना एकस्यां वसतौ सम्भवन्तीति समासार्थः ॥ १४०१ ॥ अथ विस्तरार्थमाह
दट्टण य अणगारं, सड्डी संवेगमागया काइ । (पि.नि.२९३]
नत्थि महं तारिसयं, अन्नं जमलजिया दाहं ॥१४०२॥ तमनगारं तपःशोषितमलपटलजटिलवपुषं दृष्ट्वा काचित् श्राद्धिका परमसंवेगमागता सती चिन्तयति-किं मे जीवितेन यद् ईदृशस्य महात्मनो भिक्षा न दीयते ?, नास्ति मम तादृशं शोभनमन्नं यद् अहमलज्जिता सती दास्यामि ॥ १४०२ ॥ ततः
26 सव्वपयत्तेण अहं, कल्लं काऊण मोअणं विउलं ।
दाहामि तुट्ठमणसा, होहिइ मे पुण्णलाभो त्ति ॥ १४०३॥ सर्वप्रयत्नेनाहं 'कल्ये' द्वितीयेऽहनि भोजनं विपुलं कृत्वा दास्यामि 'तुष्टमनसा' प्रहृष्टेन चेतसा, ततो भविप्यति मे महान् पुण्यलाभः । इत्थं विचिन्त्य द्वितीये दिवसे विपुलमशनादि भक्तमवगाहिम वा उपस्कृत्य तं भगवन्तं प्रतीक्षमाणा तिष्ठति ॥ १४०३ ।। ततः किमभूत् ? इत्याह
फेडित वीही तेहिं, अणंतवरनाण-दसणधरेहि । अद्दीण अपरितंता, विइयं च पहिंडिया तहियं ॥ १४०४॥
20.
80