SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ४१९ भाष्यगाथाः १३८५-९४ ] प्रथम उद्देशः । टाद् व्याख्यास्यते ।। १३८८ ॥ अथ स्थण्डिलद्वारमाह उच्चारे पासवणे, उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुण्णे, कयकिच्चो उज्झई वत्थे ॥ १३८९ ॥ उच्चारस्य प्रश्रवणस्य च 'उत्सर्ग' परित्यागं 'प्रथमे' अनापाते असंलोके स्थण्डिले करोति । 'तत्रैव' प्रथमस्थण्डिले 'कृतकार्यः' विहितशीतत्राणादिवस्त्रकार्य उज्झति वस्त्राणि ॥ १३८९ ॥5 अयं च संज्ञां व्युत्सृज्य न निर्लेपयति, कुतः ? इति चेद उच्यते____ अप्पमभिन्नं वच्चं, अप्पं लूहं च भोयणं भणियं । दीहे विउ उवसग्गे, उभयमवि अभंडिले न करे ॥१३९०॥ अल्पमभिन्नं च 'वर्चः' पुरीषमस्य भवति, कुतः ? इत्याह--यतोऽल्पं रूक्षं च भोजनमस्य भणितं भगवद्भिः । अल्पा-ऽभिन्नवर्चस्कतया तथाकल्पत्वाच्चासौ न निर्लेपयति । न चासौ 10 'दीर्धेऽपि' बहुदैवसिके उपसर्गे 'उभयमपि' संज्ञा कायिकी च 'अस्थण्डिले' आपातादिदोषयुक्ते भूभागे करोति ७ ॥ १३९० ॥ वसतिद्वारमाह अममत्त अपरिकम्मा, नियमा जिणकप्पियाण वसहीओ। एमेव य थेराणं, मुत्तूण पमजणं एकं ।। १३९१ ॥ 'अममत्वा' ममेयमित्यभिप्वङ्गरहिता 'अपरिकर्मा' साध्वर्थमुपलेपनादिपरिकर्मवर्जिता नियमाद् ।। जिनकल्पिकानां वसतिः । स्थविरकल्पिकानामप्येवमेव वसतिरममत्वा अपरिकर्मा च द्रष्टव्या, मुक्त्वा प्रमार्जनामेकामन्यत् परिकर्म तेऽपि न कुर्वन्तीत्यर्थः ॥ १३९१ ॥ एतदेव स्पष्टयति 'विले न ढकंति न खजमाणिं, गोणाइ वारिंति न भञ्जमाणिं । दारे न ढकंति न वऽग्गलिंति, दप्पेण थेरा भइआ उ कब्जे ॥ १३९२ ॥ एते भगवन्तो बिलानि धूल्यादिना न स्थगयन्ति, न वा गवादिभिः खाद्यमानां भज्यमानां वा 20 वसतिं निवारयन्ति, द्वारे "न ढकंति" कपाटाभ्यां न संयोजयन्ति, न वा 'अर्गलयन्ति' नार्गलया नियन्त्रयन्ति । स्थविरकल्पिका अपि 'दर्पण' कार्याभावे एवमेव न वसतेः परिकर्म कुर्वन्ति, 'कार्ये तु' पुष्टालम्बने 'भाज्याः' परिकर्म कुर्वन्त्यपाति भावः ८ ॥ १३९२ ॥ यिचिरोच्चारप्रश्रवणा-ऽवकाश-तृणफलक-संरक्षण-संस्थापनाद्वाराणि गाथाद्वयेन भावयतिकिच्चिरकालं वसिहिह, इत्थ य उच्चारमाइए कुणसु । 25 इह अच्छसु मा य इहं, तण-फलए गिहिमे मा य॥ १३९३ ।। सारक्खह गोणाई, मा य पडिंति उविक्खहउ भंते । अन्नं वा अभिओगं, नेच्छंतचियत्तपरिहारी ॥ १३९४ ॥ यस्यां वसतौ याच्यमानायां तदीयस्वामिन इत्थं भणन्ति—कियच्चिरं कालं वत्स्यथ यूयम् ? ९, यद्वा 'अत्र' प्रदेशे 'उच्चारादीनि' पुरीष-प्रश्रवणादीनि कुरु, अत्र तु मा कुरु १०-११, 'इह' 30 अस्मिन्नवकाशे आसीथाः, इह मेति १२, 'एतानि वा' हस्तसंज्ञया निर्दिश्यमानानि तृण-फल १ यकजो उ° ता० ॥ २ दारं ण ढक्केति ता० ॥ ३ बिले ण घटेति न ता० ॥ ४ 'अर्गलन्ति' मो० ले । “अग्गलंति" भा० ॥ ५°काशे भवता भासितव्यम्, इह नेति १२ भा०॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy