SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ .४१८ 15 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ श्रुतं १ संहननं २ उपसर्गाः ३ आतङ्कः ४ वेदनाः ५ कतिजनाश्च ६ स्थण्डिलं ७ वसतिः ८ कियच्चिरं ९ उच्चारश्चैव १० प्रश्रवणं ११ अवकाशः १२ तृणफलकं १३ संरक्षणता च १४ संस्थापनता च १५ प्राभृतिका १६ अमिः १७ दीपः १८ अवधानं १९ वत्स्यथ कति जनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथा अलेपश्च २४ आचाम्लं २५ प्रतिमाः 5२६ मासकल्पश्च २७ "जिणकप्पे" ति एतानि सप्तविंशतिद्वाराणि जिनकल्पविषयाणि वक्तव्यानीति द्वारगाथात्रयसमुदायार्थः ॥ १३८२ ॥ १३८३ ॥ १३८४ ॥ अथावयवार्थ प्रतिद्वारं प्रतिपिपादयिषुः “यथोद्देशं निर्देशः" इति न्यायात् प्रथमतः श्रुतद्वारमाह आयारवत्थुतइयं, जहन्नयं होइ नवमपुव्वस्स । .. तहियं कालण्णाणं, दस उक्कोसेण मिन्नाई ॥१३८५ ॥ 10 जिनकल्पिकस्य जघन्यकं श्रुतं 'नवमपूर्वस्य' प्रत्याख्याननामकस्याचाराख्यं तृतीयं वस्तु तस्मिन्नधीते सति कालज्ञानं भवतीत्यतस्तदर्वाक्छूतपर्याये वर्तमानस्य न जिनकल्पप्रतिपत्तिः । उत्कर्षतो दश पूर्वाणि भिन्नानि श्रुतपर्यायः । सम्पूर्णदशपूर्वधरः पुनरमोधवचनतया प्रवचनप्रभावनापरोपकारादिद्वारेणैव बहुतरं निर्जरालाभमासादयति अतो नासौ जिनकल्पं प्रतिपद्यते ॥ १३८५ ॥ उक्तं श्रुतद्वारम् १ । अथ संहननद्वारमाह पढमिल्लगसंघयणा, घिईऍ पुण वजकुड्डसामाणा। उप्पजंति न वा सिं, उवसग्गा एस पुच्छा उ ॥ १३८६ ॥ - जिनकल्पिकाः 'प्रथमिल्लुकसंहननाः' वज्रर्षभनाराचसंहननोपेताः 'धृत्या' अङ्गीकृतनिर्वाहक्षममनःप्रणिधानरूपया वज्रकुड्यसमानाः २ । अथोपसर्गद्वारम्-उत्पद्यन्ते न वा अमीषामुपसर्गा दिव्यादयः ? इत्येषा पृच्छा ॥ १३८६ ॥ अत्रोत्तरमाह जइ वि य उप्पजते, सम्मं विसहति ते उ उवसग्गे। रोगातंका चेवं, भइआ जइ होति विसहति ॥ १३८७॥ नायमेकान्तो यदवश्यमेतेषामुपसर्गा उत्पद्यन्ते, परं यद्युत्पद्यन्ते तथापि सम्यगदीनमनसो विषहन्ते तानुपसर्गान् ३ । आतङ्कद्वारमतिदिशति-रोगाश्च–कालसहाः आतङ्काश्च–सद्योघातिनः एवमेव 'भाज्याः' उत्पद्यन्ते वा न वा । यदि भवन्ति उत्पद्यन्ते ततो नियमाद् विष25 हन्ते ४ ॥ १३८७ ॥ वेदनाद्वारमाह अब्भोवगमा ओवकमा य तेसि वियणा भवे दुविहा । . धुवलोआई पढमा, जरा-विवागाइ बिइएको ॥ १३८८ ।। आभ्युपगमिकी औपक्रमिकी च 'तेषां' जिनकल्पिकानां द्विविधा वेदना भवति । तत्र प्रथमा 'ध्रुवलोचौदि' ध्रुवः-प्रतिदिनभावी लोचः, आदिशब्दादातापना-तपःप्रभृतिपरिग्रहः । 'द्वितीया तु' 30 औपक्रमिकी 'जरा-विपाकादिः' जरा-प्रतीता विपाकः-कर्मणामुदयस्तत्समुत्था ५। अथ कियन्तो जनाः ? इति द्वारम्-"एको' त्ति एक एवायं भगवान् भवति ६ । यदि वा इदं द्वारमुपरि १ ति गाथा' मो० ले० विना ॥ २°द्वारमाह-आयार° भा०॥ ३°न्ते, यद्यप्युत्पद्य मो० ले० कां० ॥ ४°चाद्या' ध्रु० भा० विना ॥ 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy