SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रथम उद्देशः । ४१७ इच्छा - मिच्छा - तहकारो, आवस्सि निसीहिया य आपुच्छा । [ उ.नि. ४८५ ] सामान्यपडिपुच्छ छंदण निमंतणा य उवसंपया चैव ॥ १३७८ ॥ रीद्वारम् 'इदं मदीयं कार्यमिच्छया कुरुत, न बलाभियोगेन' इत्येवमिच्छायाः करणमिच्छाकारः । कथञ्चित् स्खलितस्य 'मिथ्या मदीयं दुष्कृतम्' इति भणनं मिथ्याकारः । गुर्वादिषु ब्रुवाणेषु 'यथाऽऽदिशत यूयं तथैव' इति भणनं तथाकारः । क्वचिद् बहिर्गमनकार्ये समुत्पन्ने 'अवश्यं 5 गन्तव्यम्' इति भणनं आवश्यकी । वसतिप्रवेशे 'निषिद्धोऽहं गमनक्रियायाः' इति भणनं नैषेधिकी । स्वकार्यप्रवृत्तावाप्रच्छनमापृच्छा । आदिष्टस्य कार्यस्य करणकाले पुनः प्रच्छनं प्रतिपृच्छा । पूर्वगृहीतेनाशनादिना साधूनामभ्यर्थना च्छन्दना । तेनैवागृहीतेन 'यथालाभं युष्मद्यो - ग्यममुकमानेष्ये' इति प्रार्थना निमन्त्रणा । उपसम्पद् द्विधा - साधुविषया गृहस्थविषया च । ज्ञानादिहेतोर्यदपरं गणं गत्वोपसम्पद्यते सा साधुविषया । यत् पुनरवस्थाननिमित्तं गृहिणामनु- 10 ज्ञापनं सा गृहस्थविषया ॥ १३७८ ॥ अथैतासां मध्याद् जिनकल्पिकस्य काः सामाचार्यो भवन्ति ? इत्युच्यते आवस निसीहि मिच्छा, आपुच्छुवसंपदं च गिहिए । अन्ना सामायारी, न होंति से सेसिया पंच ॥ १३७९ ॥ चक्रवाल आवश्यक नैषेधिक मिथ्याकारमापृच्छां उपसम्पदं च ' गृहिषु' गृहस्थविषया एताः पञ्च 15 सामाचार्यः सामाचारीर्जिनकल्पिकः प्रयुङ्क्ते । अन्याः सामाचार्यो न भवन्ति 'से' तस्य 'शेषाः पञ्च' इच्छाकाराद्याः, प्रयोजनाभावात् ॥ १३७९ ॥ आदेशान्तरमाह आवासियं निसीहियं, मोत्तुं उवसंपयं च गिहिए । सेसा सामायारी, न होंति जिणकप्पिए सत्त ॥ १३८० ॥ आवश्यक नैषेधक मुक्त्वा उपसम्पदं च ' गृहिषु' गृहस्थविषया जिनकल्पिकस्य 'शेषाः 20 सामाचार्यः' मिथ्याकाराद्याः सप्त न भवन्ति, तद्विषयस्य स्खलितादेरभावात् ॥ १३८० ॥ अहवा वि चकवाले, सामायारी उ जस्स जा जोग्गा । भाष्यगाथाः १३७३-८४ ] सा सव्वा वेत्तव्वा, सुयमाई वा इमा मेरा ।। १३८१ ॥ अथवाऽपि 'चक्रवाले' प्रत्युपेक्षणादौ नित्यकर्मणि यस्य जिनकल्पिकादेर्या सामाचारी योग्या सा सर्वा अत्र सामाचारीद्वारे वक्तव्या । श्रुतादिका वा 'इयं' वक्ष्यमाणा 'मेरा' मर्यादा सामा- 25 चारी ॥ १३८१ ॥ तामेवाभिधित्सुर्द्वारगाथात्रयमाह - सुय संघयणुवसग्गे, आतंके वेदणा कइ जणा य । थंडिल सहि केच्चिर, उच्चारे चैव पासवणे || १३८२ ॥ ओवा तणफलए, सारक्खणया य संठवणया य । पाहुड अग्गी दीवे, ओहाण वसे कइ जणा य ॥ १३८३ ॥ भिक्खायरिया पाणग, लेवालेवे तहा अलेवे य । आयंबिल पडिमाओ, जिणकप्पे मासकप्पो य ।। १३८४ ॥ १ बोधव्वा ता० ॥ 30 जिनक ल्पिकस्य जिनक ल्पिकस्य श्रुतादिकाः सामाचार्यः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy