________________
ओमो समराइणिओ, अप्पतरसुओ अ मा य णं तुब्भे । परिभवह तुम्ह एसो, विसेसओ संपयं पुत्रो ।। १३७३ ॥
'अवमोऽयं समरालिकोऽयं अल्पतरश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्य आज्ञानिर्देशं वयं कुर्महे ?' इति मा यूयममुं परिभवत । यत एष युष्माकं साम्प्रतमस्मत्स्थानीयत्वाद् गुरुतरगुणाधिकत्वाच्च विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः ॥ १३७३ ॥ इत्थमुभयेषामप्यनुशिष्टिं प्रदाय किं करोति ? इत्याह
पक्खीव पत्तसहिओ, सभंडगो वच्चए निरवयक्खो ।
एतं जा तड़या, तीऍ विहारो से नन्नासु ॥ १३७४ ॥
यथा पक्षी पत्राभ्यां - पक्षाभ्यां सहितः प्राक्तनस्थाननिरपेक्षः स्थानान्तरं व्रजति, एवमयमपि भगवान् ‘सभाण्डकः' पात्रसहितः 'निरपेक्ष:' गच्छसत्कापेक्षया रहितः 'एकान्तं' मासकल्पप्रायोग्यं 15 क्षेत्रं व्रजति । अयं च यावत् तृतीयेपौरुपी तावद् गच्छति, यतस्तस्यामेव "से" तस्य विहारो नान्यासु पौरुषीषु, यत्र तु चतुर्थी पौरुषी भवति तत्र नियमात् तिष्ठतीति ॥ १३७४ ॥ तस्मिन् निर्गते सति शेषसाधवः किं कुर्वन्ति ? इत्याह
सीहम्म व मंदरकंदराओं नीहम्मिए तओ तम्मि ।
चक्खुविसयं अइगए, अति आनंदिया साहू ।। १३७५ ।। 20 सिंहे इव मन्दरकन्दरायास्तस्मिन्ननगारसिंहे गच्छाद् “नीहम्मिए " निर्गते सति कियन्तमपि भूभागमनुगमनं विधाय ततश्चक्षुर्विषयम् 'अतिक्रान्ते' अदर्शनीभूते आयान्ति खवसतिम् 'आनन्दिताः ' 'अहो ! अयं भगवान् सुखसेवनीयं स्थविरकल्पविहारं विहायातिदुष्करमभ्युद्यतविहारमभ्युपैति' इति परिभावनया हृष्टाः सन्तः साधव इति ।। १३७५ ॥ इदमेव सविशेषमाहनिचेल सचेले वा, गच्छारामा विणिग्गए तम्मि |
चक्खुविसयं अईए, अयंति आनंदिया साहू
१३७६ ॥
निश्चेले वा सचेले वा गच्छारामात् सुखसेवनीयाद् विनिर्गते तस्मिँश्चक्षुर्विषयमतीते आया - न्त्यानन्दिताः साधव इति ॥ १३७६ ॥ अथासौ विवक्षितं क्षेत्रं गत्वा किं करोति : इत्याहआभोएउ खेत्तं, निव्वाघाएण मासनिव्वाहिं ।
तूण तत्थ विहरइ, एस विहारो समासेणं ॥ १३७७ ॥
'आभोग्य' विज्ञाय क्षेत्रं 'निर्व्याघातेन' विघ्नाभावेन 'मासनिर्वाहि ' मासनिर्वहणसमर्थं गत्वा 'तत्र' क्षेत्रे 'विहरति ' खनीतिं परिपालयति । एष विहारो विशेषानुष्ठानरूपोऽस्य भगवतः समासेन प्रतिपादित इति ॥ १३७७ ॥ उक्तं विहारद्वारम् । अथ सामाचारीद्वारमाह
१ या पौ भा० ॥
४१६
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
ये च तव बहुश्रुत-पर्यायज्येष्ठादयो विनययोग्याः - गौरवाहस्तेषु 'पूर्वप्रवृत्तं' यथोचितं विनयं ' मा प्रमादयेः' मा प्रमाद्धेन परिहापयेः । यश्च साधुर्येन तपः खाध्याय - वैयावृत्त्यादिना प्रकारेण 'उपयुज्यते' निर्जराप्रत्युपयोगमुपयाति 'तं च जानीहि ' तं तथैव प्रवर्त्तयेत्यर्थः, ॥ १३७२ ॥ अथ साधूनामनुशिष्टिं प्रयच्छति—
5
10
25
30
____________