________________
भाष्यगाथाः १३६३-७२ ]
प्रथम उद्देशः ।
४१५
कमपि स्थापयति । किं पुनः क्षमयति ? इत्याह- 'सर्व' सकलमपि सङ्घ चशब्दात् तदभावे स्वगच्छं बाल-वृद्धाकुलम् । ये च ' पूर्वविरुद्धाः' प्राग्विराधितास्तान् विशेषेण क्षमयति ॥१३६७॥
कथं पुनः ? इत्याह
जर किंचि पमाएणं, न सुट्टु भे वट्टियं मए पुर्वित्र । तं भे खामेमि अहं, निस्सल्लो निक्कसाओ अ ।। १३६८ ॥
यदि किञ्चित् 'प्रमादेन' अनाभोगादिना न सुष्ठु 'भे' युष्मान् क्षमयाम्यहं निःशल्यो निष्कषायश्च ॥ १३६८ ॥
इत्थं तेन क्षमिते सति शेषसाधवः किं कुर्वन्ति ? इत्याहआणंदअंसुपायं, कुणमाणा ते वि भूमिगयसीसा | खामिति जहरिहं खलु, जहारिहं खामिता तेणं ।। १३६९ ।। 'तेऽपि' साधव आनन्दाश्रुपातं कुर्वाणाः 'भूमिगतशीर्षाः ' क्षितिनिहितशिरसः सन्तः क्षमयन्ति 'यथार्ह' यो यो रत्नाधिकः स स प्रथममित्यर्थः, तेनाचार्येण 'यथार्हं' यथापर्यायज्येष्ठं क्षामिताः सन्त इति ॥ १३६९ ॥ अथेत्थं क्षामणायां के गुणाः ? इत्याह
भवतां मया वर्त्तितं पूर्वं तद् “भे"
खामितस्स गुणा खल, निस्सल्लय विणय दीवणा मग्गे ।
लाघवयं गतं, अप्पडिबंधो अ जिणकप्पे ॥ १३७० ॥
1
जिनकल्पे प्रतिपद्यमाने साधून् क्षमयतः खल्वेते गुणाः । तद्यथा - ' निः शल्यता' मायादिशल्याभावो भवति । विनयश्च प्रयुक्तो भवति । मार्गस्य दीपना कृता भवति, इत्थमन्यैरपि क्षामणकपुरस्सरं सर्वं कर्त्तव्यमिति । 'लाघवम्' अपराधभारापगमतो लघुभाव उपजायते । 'एकत्वं ' 'क्षामिता मयाऽमी साधवः, इत ऊर्द्धमेक एवास्मि' इत्यनुध्यानं भवति । 'अप्रतिबन्धश्च' ममत्वस्य च्छिन्नत्वाद् भूयः शिष्येषु प्रतिबन्धो न भवति ॥ १३७० ॥
अथ निजपदस्थापितस्य सूरेरनुशिष्टिमाह
अह ते सबाल - बुढो, गच्छो साइज णं अपरितंतो । एसो हु परंपरतो, तुमं पि अंते कुणसु एवं ।। १३७१ ॥ पुव्वपवित्तं विषयं मा हु पमाएहिं विणयजोगेसु ।
जो जेण पगारेणं, उववजह तं च जाणाहिं ।। १३७२ ।।
अथैषः 'ते' तव सबाल-वृद्धो गच्छो निसृष्ट इति शेषः, अतः 'अपरितान्तः' अनिर्विण्णः "गं" एनं गच्छं 'सातयेः' सेङ्गोपायेः, स्मारणा-वारणादिना सम्यक् पालयेरित्यर्थः । न च 'परि - त्यक्तोऽहममीभिः' इत्यादि परिभाव्यम्, यत एष एव 'परम्परक : ' शिष्या - ssचार्यक्रमो यद् अव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः । त्वमपि '' शिष्यनिष्पादनादिकार्यपर्यवसाने एवमेव कुर्याः ॥ १३७१ ॥
१ पाः सा भा०डे० ॥ २ 'न्ति ते 'यथार्ह' यथापर्यायज्येष्ठं यथार्थे तेन क्षामि भा० ॥ ३ श्वाराधितो भव भा० ॥ ४ "एगत्तं" ति एकत्वभावनात्मकं 'क्षामिता मो० ० ॥ ५ संयमात्मनि खेदं प्रापयेः, स्मां मो० ले० ॥
5
10
15
क्षामणा
20
25
30
नव्यस्थापिताचार्य
प्रति गच्छसाधू
श्व प्रति प्रातना
चार्यस्य शिक्षाव
च