________________
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ पीठिकायामुक्तं ( गाथाः ६१० प्रभृतयः ६५५ प्रभृतयश्च ) तत्राद्यद्वयवर्जमुत्तरयोरेव ग्रहणम् । तत्राप्यपरस्यामभिग्रहः ॥ १३६२ ॥ अथ “पंतं लूहं"ति व्याचष्टे
निप्फाव-चणकमाई, अंतं पंतं तु होइ वावणं ।
नेहरहियं तु लूह, जं वा अबलं सभावेणं ॥ १३६३ ॥ 5 निप्पावाः-वल्लाश्चणकाः-प्रतीता आदिशब्दात् कुल्माषादिकं च आन्तमित्युच्यते । प्रान्तं पुनस्तदेव 'व्यापन्नं' विनष्टं कुथितमित्यर्थः । यत् पुनः स्नेहरहितं तद् सक्षम् , यद्वा खभावेन 'अबलं' रब्वादिकं तदपि रूक्षं मन्तव्यम् ॥ १३६३ ॥ अत्रैव विधिविशेषमाह----
उकुडुयासणसमुई, करेइ पुढवीसिलाइसुववेसे ।
पडिवन्नो पुण नियमा, उकुडुओ केइ उ भयंति ॥ १३६४ ॥ 10
तं तु न जुञ्जइ जम्हा, अणंतरो नत्थि भूमिपरिभोगो ।
तम्मि य हु तस्स काले, ओवग्गहितोवही नत्थि ॥ १३६५ ॥ उत्कुटुकासनस्य "समुई" ति देशीवचनत्वाद् अभ्यासं करोति, 'पृथिवीशिलादिषु वा' पृथ्वीशिलापट्टके आदिशब्दाद् अपरेष्वपि तथाविधयथासंस्तृतेषु उपविशेद्वा । जिनकल्प प्रतिपन्नः
पुनर्नियमादुत्कुटुक एव । केचिद् 'भजन्ति' विकल्पं कुर्वन्ति--उत्कुटको वा तिष्ठेदुपविशेद्वा, तत्तु 15 न युज्यते, यस्माद् 'अनन्तरः' अव्यवहितो नास्ति साधूनां तावद् भूमिपरिभोगः, “सुद्धपुढवीए
न निसिए" (दशवै० अ० ८ गा० ५) ति वचनात् ; तस्मिंश्च जिनकल्पकाले औपग्रहिकोपधिर्नास्ति, सदभावाच्च निषद्याऽपि नास्तीति गम्यते', ततश्चार्थादापन्नं उत्कुटक एव तिष्ठति
॥ १३६४ ॥ १३६५ ॥ उक्तश्चशब्दसूचितो विधिशेषः । अथ वटवृक्षद्वारमाहजिनकल्प
दव्वाई अणुकूले, संघं असती गणं समाहूय । प्रतिपत्ति- 20
जिण गणहरे य चउदस, अभिन्न असती य वडमाई ॥ १३६६ ॥ कालीनो
जिण गणहर विधिः
इत्थमात्मानं परिकर्म्य द्रव्ये आदिशब्दात् क्षेत्रे काले भावे च 'अनुकूले' प्रशस्ते सङ्घ मीलयित्वा सङ्घस्य 'असति' अभावे गणं खकीयमवश्यमेव समाहूय ततः प्रथमं जिनः-तीर्थकरस्तस्यान्तिके तदभावे गणधरसन्निधाने तदलाभे चतुर्दशपूर्वधरान्तिके तदसम्भवेऽभिन्नदशपूर्वधरपा
धे तस्याप्यसति वटवृक्षस्याध आदिग्रहणीत् तदप्राप्तावशोका-ऽश्वत्थवृक्षादीनामधस्ताद् जिनकल्पं 25 प्रतिपद्यते ॥ १३६६ ॥ केन विधिना ? इत्याह
गणि गणहरं ठवित्ता, खामे अगणी उ केवलं खामे ।
सव्वं च बाल-वुटुं, पुव्वविरुद्धे विसेसेणं ॥ १३६७ ॥ _ 'गणी' गच्छाधिपाचार्यः स पूर्वमित्वरनिक्षिप्तगणं खशिष्यं गणधरं स्थापयित्वा श्रमणसङ्घ क्षमयति । "अगणि" त्ति यस्तु गणी न भवति किन्तु सामान्यसाधुः स केवलं क्षमयति न तु
१ अन्त मो० ले० ॥ २°ते, तस्याश्चाभावे शुद्धपृथिव्यामुपवेशनस्याकल्पनीयत्वादादा भा० । “नास्ति तस्यौपग्रहिकमुपकरणम् , तेन निषद्या नास्तीति गम्यते, तदभावादुपवेशनाभावः” इति चूर्णी विशेषचूर्णौ च ॥ ३°त् क्षेत्र काल-भावेषु 'अनुकूलेषु' प्रशस्तेपु सई भा० ॥ ४°णादशोका भा० ॥