SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ भाप्यगाथाः १३५४-६२] प्रथम उद्देशः । ४१३ जिणकप्पियपडिरूवी, गच्छे वसमाण दुविह परिकम्मं । ततियं भिक्खायरिया, पंतं लूहं अभिगहीया ॥ १३५८ ॥ एवमसौ पञ्चभिर्भावनाभिर्भावितान्तरात्मा जिनकल्पिकस्य प्रतिरूपी-तदनुरूपो भूत्वा गच्छ एव वसन् द्विविधं परिकर्म वक्ष्यमाणनीत्या करोति । तथा तृतीयस्यां पौरुप्यां भिक्षाचर्या, तत्रापि प्रान्तं रूक्षमाहारं गृह्णाति, एषणा च 'अभिगृहीता' अभिग्रहयुक्ता ॥ १३५८ ॥ तथा- 5 परिणाम-जोगसोही, उवहिविवेगो य गणविवेगो य । सिज्जा-संथारविसोहणं च विगईविवेगो य ॥ १३५९ ॥ तो पच्छिमम्मि काले, सप्पुरिसनिसेवियं परमघोरं । पच्छा निच्छयपत्थं, उवेइ जिणकप्पियविहारं ॥१३६० ॥ परिणामस्य गुर्वादिममत्वविच्छेदेन योगानां चावश्यकव्यापाराणां यथाकालमेव करणेन 10 शुद्धिः तथा प्राक्तनस्योपधेविवेको गणविवेकश्च शय्या-संस्तारस्य विशोधनं च विकृतिविवेकश्च तदा तेन कर्त्तव्यः ॥ १३५९ ॥ ततः 'पश्चिमे काले' तीर्थाव्यवच्छित्तिकरणानन्तरं 'सत्पुरुषनिषेवितं' धीरपुरुषाराधितं 'परमघोरं' अत्यन्तदुरनुचरं 'पश्चाद' आयतौ 'निश्चयपथ्यम्' एकान्तहितं जिनकल्पिकविहारमुपैति ॥ १३६० ॥ अथ द्विविधं परिकर्म व्याख्यानयतिपाणी पडिग्गहेण व, सच्चेल निचेलओ जहा भविया । द्विविध सो तेण पगारेणं, भावेइ अणागयं चेव ॥ १३६१ ॥ परिकर्म द्विविधं परिकर्म, तद्यथा--पाणिपरिकर्म प्रतिग्रहपरिकर्म च; अथवा सचेलपरिकर्म.अचेलपरिकर्म च । तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको अचेलको वा भविता स तेनैव प्रकारेण पाणिपात्रभोजित्वादिना अनागतमेवाऽऽत्मानं भावयति ॥ १३६१ ॥ 20 प्रकारान्तरमाह आहारे उवहिम्मि य, अहवा दुविहं तु होइ परिकम्मं । पंचसु गह दोसु अग्गह, अभिग्गहो अनयरियाए ॥ १३६२॥ अथवा द्विविधं परिकर्म आहारे उपधौ च । तत्राहारं तावदसौ तृतीयपौरुष्यामवगाढायां गृह्णाति, तं चालेपकृतमेव । तत्राप्यसंसृष्टादीनां सप्तानां पिण्डैषणानां मध्याद् 'द्वयोः' आद्य- 25 योरेषणयोः 'अग्रहः' सर्वथैवाखीकारः, उपरितनीषु 'पञ्चसु' उद्धृता-ऽल्पलेपा-ऽवगृहीता-प्रगृहीतोज्झितधर्मिकासु ग्रहणम् । तत्राप्यभिग्रहोऽन्यतरस्यामेषणायाम् , एकया भक्तमपरया पानकमिति नियज्य शेषाभिस्तिसृभिस्तदिवसमग्रहणमित्यर्थः । उपधौ तु वस्त्र-पात्रयोः प्रतिमाचतुष्टयं यत् 15 १"आहारे. गाधा। आहारपरिकम्मेणं उवधिपरिकम्मेण य । तत्थाहारो ततियाए पोरुसीए । भत्त-पाणं अलेवाडं गेण्हियव्वं । तदपि सत्तण्हं पिंडेसण-पाणेसणाणं आदिल्लियाओ दो मोत्तुं उवरिल्लियाहिं पंचहिं 'आग्गहो' आल् मर्यादा-ऽभिविष्योः आ-मर्यादया प्रहः आग्रहः । कायं दीहा मत्ता. लक्खणगाधा । दोहिमभिग्गहो, तत्थ वि 'अण्णतरीए अभिग्रहः' अण्णाए भत्तं अण्णाए पाणयं गेण्हति । वत्थे उवरिल्लियाहिं दोहिं आग्गहो, अभिग्गही अण्णतरियांए ॥"इ
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy