________________
४१२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ मन्तव्यम् । शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिप्यते ॥ १३५३ ॥ ___ आह तपो-ज्ञानप्रभृतिभिर्भावनाभिर्भावयतः कृशतरं शरीरं भवति ततः कुतोऽस्य शारीरबलं भवति ? इति, उच्यते
कामं तु सरीरबलं, हायइ तव-नाणभावणजुअस्स ।
देहावचए वि सती, जह होइ धिई तहा जयइ ॥ १३५४ ॥ _ 'कामम्' अनुमतं 'तुः' अवधारणे अनुमतमेवास्माकं यत् तपो-ज्ञानभावनायुक्तस्य शरीरबलं हीयते, परं देहापचयेऽपि सति यथा 'धृतिः' मानसावष्टम्भलक्षणा निश्चला भवति तथाऽसौ
यतते, धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः ॥ १३५४ ॥ ____ आह इत्थं धृतिबलेन भावयतः को नाम गुणः स्यात् ? उच्यते-- 10
कसिणा परीसहचमू , जइ उद्विजाहि सोवसग्गा वि । दुद्धरपहकरवेगा, भयजणणी अप्पसत्ताणं ॥ १३५५ ॥ धिइधणियबद्धकच्छो, जोहेइ अणाउलो तमव्वहिओ।
बलभावणाएँ धीरो, संपुण्णमणोरहो होइ ॥ १३५६ ॥ 'कृत्स्ना सम्पूर्णा 'परीषहचमूः' मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीपहा:-क्षुधादयस्त एव 15 तेषां वा चमू:-सेना सा यदि 'उत्तिष्ठेत' सम्मुखीभूय परिभवनाय प्रगुणीभवेत् 'सोपसर्गाऽपि'
दिव्याधुपसगैः कृतसहायकाऽपि, तथा "दुद्धरपहकरवेग" ति दुर्द्धर-दुर्वहं पन्थान-सम्यग्दर्शनादिरूपं मोक्षमार्ग करोतीति दुर्द्धरपथकरस्तथाविधो वेगः-प्रसरो यस्याः सा दुर्द्धरपथकरवेगा, 'भयजननी' संत्रासँकरी 'अल्पसत्त्वानां' कापुरुषाणाम् ॥ १३५५ ॥
तामेवंविधामपि स जिनकल्पं प्रतिपत्तुकामो योधयति । कथम्भूतः ? धृतिरेव धणियम्20 अत्यर्थ बद्धा कक्षा येन स तथा 'अनाकुलः' औत्सुक्यरहितः 'अव्यथितः' निप्प्रकम्पमनाः स
बलभावनया तां योधयित्वा 'धीरः' सत्त्वसम्पन्नः सन् सम्पूर्णमनोरथो भवति, परीपहोपसर्गान् पराजित्य स्वप्रतिज्ञां पूरयतीत्यर्थः ॥ १३५६ ॥ अपि च -
धिइ-बलपुरस्सराओ, हवंति सव्वा वि भावणा एता।
__तं तु न विजइ सज्झं, जं धिइमंतो न साहेइ ॥ १३५७ ॥ 25 सर्वा अप्येतास्तपःप्रभृतयो भावना धृति-बलपुरस्सरा भवन्ति, नहि धृति-बलमन्तरेण पाण्मासिकतपःकरणाद्यनुगुणास्ताः तथा भावयितुं शक्यन्ते । किञ्च 'तत् तु' तत् पुनः 'साध्यं' कार्य जगति न विद्यते यद् 'धृतिमान्' सात्त्विकः पुरुषो न साधयति, “सर्व सत्त्वे प्रतिष्ठितम्” इति वचनात् । एतेन “अबोच्छित्ती मण' (गा० १२८०) इत्यादिद्वारगाथायाः "उवसग्गसहे"
इति यत् पदं तद् भावितं मन्तव्यम् , बलभावनया उपसर्गसहत्वभावादिति ॥ १३५७ ॥ 30 गता बलभावना । अथ "उवसग्गसहे य" त्ति इत्यत्र यः चशब्दः सोऽनुक्तसमुच्चये वर्त्तते, अतस्तदर्थलब्धं विधिशेषमाह
१ शरीरमिति ततः मो० ले० ॥ २°चये सत्यपि यथा भा० ॥ ३°सकारिणी 'अल्प' मो० ले० विना ॥