________________
सूत्रभावना
भाप्यगाथाः १३३३-४४] प्रथम उद्देशः ।
४०९ ऽऽरक्षिक-श्वापदादिभयसहितानि मन्तव्यानि । शून्यगृह-श्मशानयोः चशब्दात् चतुष्के च सविशेषतराणि 'त्रिविधानि' दिव्य-मानुष्य-तैरश्वोपसर्गरूपाणि भयानि भवन्ति, तान्यपि, सम्यग् जयतीति प्रक्रमः ॥ १३३८ ॥ अस्या एव भावनायाः फलमाह
देवेहि भेसिओ वि य, दिया व रातो व भीमरूवेहिं ।
तो सत्तभावणाए, वहइ भरं निभओ सयलं ॥ १३३९ ॥ तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा वा रात्रौ वा भीमरूपैर्देवैर्भेषितोऽपि 'भरं' जिनकल्पभारं सकलमपि निर्भयः सन् वहतीति ॥ १३३९ ॥ गता सत्त्वभावना । अथ सूत्रभावनामाह
जइ वि य सनाममिव परिचियं सुअं अणहिय-अहीणवन्नाई।
कालपरिमाणहेउं, तहा वि खलु तज्जयं कुणइ ॥१३४०॥ यद्यपि स्वनामेव तस्य श्रुतं परिचितम् 'अनधिका-ऽहीनवर्णादि' अनत्यक्षरं अहीनाक्षरम् 10 आदिशब्दाद् अव्याविद्धाक्षरादिगुणोपेतं च तथापि कालपरिमाणहेतोः 'तज्जयं' श्रुताभ्यासं करोति ॥ १३४० ॥ कथम् ? इति चेद् उच्यते
उस्सासाओ पाणू, तओ य थोत्रो तओ वि य मुहत्तो।
मुहत्तेहिं पोरिसीओ, जाणेइ निसा य दिवसा य ॥ १३४१ ॥ श्रुतपरावर्तनानुसारेणैव सम्यगुच्छासमानं कलयति, तत उच्छ्वासात् 'प्राणः' उच्छास-15 निःश्वासात्मकः, ततश्च प्राणात् 'स्तोकः' सप्तप्राणमानः, ततोऽपि च स्तोकाद् 'मुहूर्तः' घटिकाद्वयमानः, मुहूर्तश्च पौरुष्यस्तेन भगवता ज्ञायन्ते, ताभिश्च पौरुषीभिर्निशाश्च दिवसाँश्च जानाति ॥ १३४१॥ तथा
मेहाईछन्नेसु वि, उभओकालमहवा उवस्सग्गे ।
पेहाइ भिक्ख पंथे, नाहिइ कालं विणा छायं ॥ १३४२ ॥ 20 मेघादिना च्छन्नेप्वपि-अनुपलक्ष्येषु विभागेपु 'उभयकालं' क्रियाणां प्रारम्भ-परिसमाप्तिरूपम् , अथवा 'उपसर्गे' दिव्यादौ दिवस-रजन्यादिव्यत्ययकरण लक्षणे प्रेक्षादेः--उपकरणप्रत्युपेक्षाया आदिशब्दादावश्यककरणादेः "भिक्ख" ति भिक्षायाः "पंथि" ति मार्गस्य विहारस्येत्यर्थः, एतेषां सर्वेषामपि यः कालस्तं छायां विना स्वयमेव ज्ञास्यति ॥ १३४२ ॥ अथ सूत्रभावनांया एव गुणानाह
25 ____एगग्गया सुमह निजरा य नेव मिणणम्मि पलिमंथो।
न पराहीणं नाणं, काले जह मंसचक्खूगं.॥ १३४३ ॥ श्रुतपरावर्तनया चित्तस्यैकाग्रता भवति, सुमहती च निर्जरा भवति खाध्यायविधानप्रत्यया, नैव च्छायामापने 'पलिमन्थः' सूत्रार्थव्याघातलक्षणः, न च 'काले' पौरुप्यादिकालविषयं 'पराधीनं' सूर्यच्छायायत्तं ज्ञानम् यथा अन्येषां 'मांसचक्षुषां' छमस्थानां साधूनाम् ॥१३४३।। उपसंहरन्नाह - 30
सुयभावणाएँ नाणं, दंसण तवसंजमं च परिणमइ ।
तो उवओगपरिणो, सुयमव्वहितो समाणेइ ॥ १३४४ ॥ १ °हुतेहिं ता० ॥ २ °मानस्तेन ज्ञायते, मुहूर्तश्च पौरुषीविजानाति, ताभिश्च भा० ॥