________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ मार्गदूषणा
नाणादि तिहा मग्गं, दूसयए जे य मग्गपडिवन्ना ।
अवुहो पंडियमाणी, समुद्वितो तस्स घायाए ॥ १३२३ ॥ ज्ञानादिकं 'त्रिधा' त्रिविधं पारमार्थिक मार्ग खमनीषिकाकल्पितैर्जातिदूषणैर्दूषयति, ये च तस्मिन् मार्गे प्रतिपन्नाः साध्वादयस्तानपि दूषयति, 'अबुधः' तत्त्वपरिज्ञानविकलः, 'पण्डितमानी' 5 दुर्विदग्धः, 'समुत्थितः' उद्यतः 'तस्य' पारमार्थिकमार्गस्य 'घाताय' निर्लोठनायेति, एषा मार्ग
दूषणा ।। १३२३ ॥ मार्गविप्रतिपत्तिमाहमार्गविप्र
जो पुण तमेव मग्गं, दूसेउमपंडिओ सतक्काए । तिपत्तिः
उम्मग्गं पडिवाइ, अकोविअप्पा जमालीव ॥ १३२४ ॥ यः पुनः 'तमेव' पारमार्थिकं मार्गमसद्भिर्दूषणैर्दूषयित्वा 'अपण्डितः' सदद्धिरहितः सन् 10 'खतर्कया' स्वकीयमिथ्याविकल्पेन देशत उन्मार्ग प्रतिपद्यते 'अकोविदात्मा' सम्यक् शास्त्रार्थपरिज्ञानविकलो जमालिवत् , यथाऽसौ भगवद्वचनं "क्रियमाणं कृतम्" इति दूषयित्वा "कृत
मेव कृतम्" इति प्रतिपन्नवान् । एषा मार्गविप्रतिपत्तिः ॥ १३२४ ॥ अथ मोहद्वारमाहमोहः
भावोवहयमईओ, मुज्झइ नाण-चरणंतराईसु ।
इड्डीओ अ बहुविहा, दटुं परतित्थियाणं तु ॥ १३२५ ॥ 15 भावेन-शङ्कादिपरिणामेनोपहता-दूषिता मतिर्यस्य स भावोपहतमतिकः एवंविधः 'मुह्यति'
वैचित्त्यमुपयाति ज्ञान-चरणान्तरादिषु । ज्ञानान्तराणि नाम ज्ञानविशेषाः, तद्विषयो व्यामोहो यथा-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत् किमपरेण मनःपर्यज्ञानेन ? इति । चरणान्तरव्यामोहो यथा-यदि सामायिक
सर्वसावद्यविरतिरूपं छेदोपस्थापनीयमप्येवंविधमेव तत् को नामानयोर्विशेषः ? आदिशब्दाद् 20दर्शनान्तर-मतान्तर-वाचनान्तरादिपरिग्रहः । 'ऋद्धीश्च बहुविधाः' अनेकप्रकाराः समृद्धीः पर
तीथिकानां दृष्ट्वा यद् मुह्यति स मोह उच्यते ॥ १३२५ ॥ अथ परं मोहयित्वेति व्याचष्टेपरमोहकः
जो पुण मोहेइ परं, सम्भावेणं व कइअवेणं वा ।
सम्मोहभावणं सो, पकरेइ अबोहिलाभाय ॥ १३२६ ॥ पुनःशब्दो विशेषणे, यः पुनः सन्मार्गात् 'परम्' अन्यं प्राणिनं 'मोहयति' चित्तविभ्रमं 25 नयति 'सद्भावेन वा' सत्येनैव कैतवेन वा' परिकल्पनया स सम्मोहभावनां प्रकरोति 'अबोधिलाभाय' अयोधिफलदायिनीमित्यर्थः ॥१३२६ ॥ उक्ता साम्मोही भावना । अथाऽऽसां भावनानां सामान्यतः फलमाह
एआओं भावणाओ, भाविता देवदुग्गइं जंति ।
तत्तो वि चुया संता, परिंति भवसागरमणंतं ॥ १३२७ ॥ 30 एता भावनाः 'भावयित्वा' अभ्यस्य 'देवदुर्गतिं 'कान्दर्पिकादिदेवगतिरूपां यान्ति संयता अपि । 'ततोऽपि' देवदुर्गतेश्युताः सन्तः पर्यटन्ति 'भवसागरं' संसारसमुद्रमनन्तमिति ॥१३२७॥
उक्ता अप्रशस्ता भावनाः । सम्प्रति प्रशस्तभावना अभिधिसुराह१ दूसेतो जे ता॥