________________
भाप्यगाथाः १३१३-२२ ]
प्रथम उद्देशः ।
४०५
दिना भावेनोपहतः करोति 'तपउपधानम्' अनशनादिकं 'तदर्थम् आहाराद्यर्थं यः संसक्ततपा इति ॥ १३१७ ॥ निमित्तादेशिनमाह
तिविह निमित्तं एकेक छव्विहं जं तु वन्नियं पुत्रि । अभिमाणाभिनिवेसा, वागरियं आसुरं कुणइ ॥ १३१८ ।।
'त्रिविधम्' अतीतादिकालत्रयविषयं यत् पूर्वमिहैवाभियोगिकभावनायां ( गाथा १३१३ ) 5 वर्णितं तद् एकैकं 'षडिधं' लाभा - ऽलाभ -सुख-दुःख जीवित-मरणविषयभेदात् षट्प्रकारम् । आह आभियोगिकभावनानिबन्धनतया पूर्वमिदमुक्तम् अतः कथमिदमिहाभिधीयते ? इत्याह – 'अभिमानाभिनिवेशाद्' अहङ्कारतीत्रतया 'व्याकृतं' प्रकटितमेतद् निमित्तमासुरीं भावनां करोति, अन्यथा त्वाभियोगिकीमिति ॥ १३१८ ॥ निष्कृपमाह -
चंक्रमणाई सत्तो, सुनिक्कियो थावराइसत्तेसु ।
काउं च नाणुतप्पड़, एरिसओ निकिवो होड़ ॥ १३१९ ॥
स्थावरादिसत्त्वेषु चङ्क्रमणं - गमनं आदिशब्दात् स्थान - शयना - Ssसनादिकं 'सक्तः ' कचित् कार्यान्तरे व्यासक्तः सन् 'सुनिष्कृपः ' मुष्ठुगतघृणो निःशूकः करोतीति शेषः । कृत्वा च तेषु चमणादिकं नानुतप्यते, केनचिद् नोदितः सन् पश्चात्तापपुरस्सरं मिथ्यादुष्कृतं न ददातीत्यर्थः । ईदृशो निष्कृपो भवति, इदं निष्कृपस्य लक्षणमिति भावः ॥ १३१९ || निरनुकम्पमाह— 15 जो उ परं कंपतं, दद्दूण न कंपए कढिणभावो ।
एसो उ निरणुकंप, अणु पच्छाभावजोएणं ।। १३२० ।।
10 निष्कृपः
यस्तु 'परं' कृपास्पदं कुतश्चिद् भयात् कम्पमानमपि दृष्ट्वा कठिनभावः सन् न कम्पते एष निरनुकम्पः । कुतः ? इत्याह- अनुशब्देन पश्चाद्भाववाचकेन यो योगः - सम्बन्धस्तेन, किमुक्तं भवति ? – अनु – पश्चाद् दुःखितसत्त्वकम्पनादनन्तरं यत् कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा 20 अस्मादिति निरनुकम्प उच्यते ॥ १३२० ॥ उक्ता आसुरी भावना । सम्प्रति साम्मोहीमाहउम्मग्गदेसणा १ मग्गदूसणा २ मग्गविप्पडीवत्ती ३ ।
मोहेण य ४ मोहित्ता ५, सम्मोहं भावणं कुणइ ।। १३२१ ।।
उन्मार्गदेशना १ मार्गदूषणा २ मार्गविप्रतिपत्तिश्च ३ यस्य भवतीति वाक्यशेषः, मोहेन च यः स्वयं मुह्यति ४, एवं कृत्वा परं च मोहयित्वा ५ साम्मोहीं भावनां करोतीति' निर्युक्ति - 25 गाथासमासार्थः ॥ १३२१ ॥ अथैनामेव विवरीषुराह
नाणां अदुसिंतो, तव्विवरीयं तु उवदिसह मग्गं ।
उम्मर देसओ एस आय अहिओ परेसिं च ॥ १३२२ ॥
निमित्ता
देशी
'ज्ञानादीनि' पारमार्थिकमार्गरूपाण्यदूषयन् 'तद्विपरीतं' ज्ञानादिविपरीतमेवोपदिशति 'मार्ग' धर्मसम्बन्धिनम्, एष उन्मार्गदेशकः । अयं चात्मनः परेषां च बोधिबीजोपघातादिना ' अहितः ' 30 प्रतिकूल इत्येषा उन्मार्गदेशना || १३२२ ॥ अथ मार्गदूषणामाह
१ °ति गाथा भा० कां० ॥ २ णादी दूतो ता० ॥ ३ सणा एस ता० ॥
निरनुकम्पः
साम्मोही
भावना
उन्मार्ग
देशना