SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ . यत् स्वप्नेऽवतीर्णया विद्यया-विद्याधिष्ठाच्या देवतया शिष्टं-कथितं सद् 'अन्यस्मै' प्रच्छकाय कथयति; अथवा “आइंखिणिया" डोम्बी तस्याः कुलदैवतं घण्टिकयक्षो नाम स पृष्टः सन् कर्णे कथयति, सा च तेन शिष्टं-कथितं सदन्यस्मै पृच्छकाय शुभा-ऽशुभादि यत् परिकथयति एप प्रभप्रश्नः ॥ १३१२ ॥ निमित्तमाहनिमित्तम् । तिविहं होइ निमित्तं, तीय-पडप्पन्न-ऽणागयं चेव । तेण न विणा उ नेयं, नजइ तेणं निमित्तं तु ।। १३१३ ॥ त्रिविधं भवति निमितम् । तद्यथा--अतीतं प्रत्युत्पन्नमनागतं च । कालत्रयवर्तिलाभाऽलाभादिपरिज्ञानहेतुश्चूडामणिप्रभृतिकः शास्त्रविशेष इत्यर्थः । कुतः ? इत्याह-'तेन' विवक्षितशास्त्रविशेषेण विना 'ज्ञेयं' लाभा-ऽलाभादिकं न ज्ञायत इति लाभा-ऽलाभादिज्ञाननिमित्तत्वाद् 10 निमित्तमुच्यते । एतानि कौतुकादीनि य आजीवति स तत्तदानीवको मन्तव्य इति ॥१३१३॥ अथ 'ऋद्धि-रस-सातगुरुकः' (गा० १३०८ ) इतिपदव्याख्यानार्थमाह एयाणि गारवट्ठा, कुणमाणो आभिओगियं बंधे । वीयं गारवरहिओ, कुव्वं आराहगुचं च ॥ १३१४ ॥ 'एतानि' कौतुकादीनि ऋद्धि-रस-सातगौरवार्थ 'कुर्वाणः' प्रयुञ्जानः सन् 'आभियोगिकं' 15 देवादिप्रेप्यकर्मव्यापारफलं कर्म बध्नाति । 'द्वितीयम्' अपवादपदमत्र भवति-गौरवरहितः सन्नतिशयज्ञाने सति निस्पृहवृत्त्या प्रवचनप्रभावनार्थमेतानि कौतुकादीनि कुर्वन्नाराधको भवति उच्चैर्गोत्रं च कर्म बध्नाति, तीर्थोन्नतिकरणादिति ॥ १३१४ ॥ गता आभियोगिकी भावना । अथाऽऽसुरीमाह - आमुरी अणुबद्धविग्गहो चिय, संसत्ततो निमित्तमाएसी। निक्किच निराणुकंपो, आसुरियं भावणं कुणइ ॥ १३१५ ॥ ___अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपो निरनुकम्पः सन् आसुरीं भावनां करोतीति नियुक्तिगाथासमासार्थः ॥ १३१५ ॥ विस्तरार्थमाह - अनुबद्ध निचं वुग्गहसीलो, काऊण य नाणुतप्पए पच्छा। विप्रहः न य खामिओ पसीयइ, सपक्ख-परपक्खो आवि ।। १३१६ ॥ 25 'नित्यं सततं 'विग्रहशीलः' कलहकरणखभावः । कृत्वा च कलहं नानुतप्यते पश्चात् , यथा—हा ! किं कृतं मया पापेन ? इति । तथा 'क्षामितोऽपि' 'क्षम्यतां ममायमपराधः' इति भणितोऽपि खपक्ष-परपक्षयोरपि 'न च' नैव 'प्रसीदति' प्रसन्नतां भजते, तीव्रकपायोदयत्वात् । अत्र च खपक्षः साधु-साध्वीवर्गः, परपक्षो गृहस्थवर्गः । एपोऽनुबद्धविग्रह उच्यते ॥१३१६॥ अथ संसक्ततपसमाहा संसक्त- 30 आहार-उवहि-पूयासु जस्स भावो उ निचसंसत्तो । भावोवहतो कुणइ अ, तवोवहाणं तदट्ठाए ॥ १३१७॥ आहारोपधि-पूजासु यस्य भावः' परिणामः 'नित्यसंसक्तः' सदाप्रतिबद्धः स एवं रसगौरवा१ विग्गह° त० डे० ता० ॥ २°ओ वा वि भा० विना । भावना 20 तपाः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy