________________
कौतुकम् ।
भाष्यगाथाः १३०५-१२] प्रथम उद्देशः ।
४०३ गूढः-मायाग्रन्थिगुपिल आचारः-प्रवृत्तिर्यस्य स गूढाचारः, 'वितथभाषी' मृषाभाषणशीलः, एष मायी द्रष्टव्य इति ।। १३०७ ।। उक्ता कैल्विषी भावना । अथाभियोगीमाहकोउअ भूई पसिणे, पसिणापसिणे निमित्तमाजीवी ।
आभियोगी
भावना इडि-रस-सायगुरुतो, अभिओगं भावणं कुणइ ॥ १३०८ ॥ ऋद्धि-रस-सातगुरुकः सन् यः कौतुकाजीवी भूतिकर्माजीवी प्रश्नाजीवी प्रश्नप्रश्नाजीवी निमित्ताजीवी च भवति स एवंविध आभियोगी भावनां करोतीति ॥ १३०८ ॥ कौतुकादिपदव्याख्यानार्थमाह
विण्हवण-होम-सिरपरिरयाइ खारदहणाइँ धूवे य।
असरिसवेसग्गहणं, अवयासण-उत्थुमण-बंधा ॥ १३०९ ॥ वालादीनां रक्षादिनिमित्तं स्त्रिया वा सोभाग्यादिसम्पादनाय यद् विशेषेण स्नपनं तद् विस्नपनम्, 10 होमः- शान्तिकादिहेतोरमिहवनम् , शिरःपरिरयः-करभ्रमणाभिमन्त्रणम् , आदिशब्दः स्वगतानेकभेदसूचकः, 'क्षारदहनानि' तथाविधव्याधिशमनायानौ लवणप्रक्षेपरूपाणि, "धूवे अ" ति तथाविधद्रव्ययोगगर्भस्य धूपस्य समर्पणम् , 'असदृशवेषग्रहणं' नाम स्वयमार्यः सन्ननार्यवेषं करोति पुरुषो वा खं रूपमन्तर्हित्य स्त्रीवेषं विदधातीत्यादि, "अवयासणं" वृक्षादीनामालिङ्गापनम् , अवस्तोभनम्-अनिष्टोपशान्तये निष्ठीवनेन थुथुकरणम् , बन्धः-कण्डकादिबन्धनम् , एतत् सर्व-15 मपि कौतुकमुच्यते ॥ १३०९ ॥ अथ भूतिकर्म व्याचष्टेभूईऍ मट्टियाएँ व, सुत्तेण व होइ भूइकम्मं तु ।।
भूतिकर्म वसही-सरीर-भंडगरक्खाअभियोगमाईया ॥ १३१०॥ 'भूत्या' भस्मरूपया विद्याभिमन्त्रितया 'मृदा वा' आर्द्रपांशुलक्षणया 'सूत्रेण वा' तन्तुना यत् परिरयवेष्टनं तद् भूतिकर्मोच्यते । किमर्थमेवं करोति ? इत्याह-~-वसति-शरीर-भाण्डकानां या 20 स्तेनाद्युपद्रवेभ्यो रक्षा तन्निमित्तमभियोगः-वशीकरणम् , आदिशब्दाद् ज्वरादिस्तम्भनपरिग्रहः ॥ १३१० ॥ अथ प्रश्नमाह
पण्हो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं ।
अंगुढच्चिट्ठ-पडे, दप्पण-असि-तोय-कुड्डाई ॥१३११ ॥ ___ 'प्रश्नस्तु' देवतादिपृच्छारूपः पसिणं भण्यते; यद्वा यत् 'वयम्' आत्मना तुशब्दादन्येऽपि 25 तत्रस्थाः पश्यन्ति तत् पसिणं प्राकृतशैल्याऽभिधीयते । किं तत् ? इत्याह–अङ्गुष्ठे "उचिट्ट" ति कंसारादिभक्षणेनोच्छिष्टे पटे-प्रतीते दर्पणे-आदर्श असौ-खड्ने तोये-उदके कुड्ये-भित्तौ आदिशब्दाद् बाहादौ वा यद् देवतादिकमवतीर्ण पृच्छति पश्यति वा स प्रश्नः । यदि वा "कुद्धाइ" त्ति पाठः, तत्र च क्रुद्धः प्रशान्तो वा यत् तथाविधकल्पविशेषात् पश्यति स प्रश्न इति ॥ १३११ ॥ प्रश्नप्रश्नमाह
पसिणापसिणं सुमिणे, विजासिटुं कहेइ अन्नस्स ।
अहवा आइंखिणिया, घंटियसिढे परिकहेइ ॥ १३१२ ॥ १ वृथाभा मो० ले० ॥ २ च स ए° त० डे० विना ॥ .
प्रश्नः
30
प्रश्नाप्रश्नः