________________
वादः
15
४०२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ केवलिस्सा, जुगवं दो नत्थि उवओगा" (विशे० गा० ३०९६) इति वचनात् । यथा चायमेक एवैकसमये उपयोग उपपद्यते तथा विशेषावश्यकादिषु (गाथा ३०८८-३१३४) श्रीजिनभद्रक्षमाश्रमणादिभिः पूर्वसूरिभिः सप्रपञ्चमुपदर्शित इति नेहोपदीते, ग्रन्थगौरवभयात् । द्वितीयपक्षानुपपत्तिनोदना त्वनभ्युपगतोपालम्भत्वादाकाशरोमन्थनमिव केवलं भवतः
5 प्रयासकारिणीति ॥ १३०४ ॥ अथ धर्माचार्यावर्णवादमाहधर्माचार्या
जचाईहिँ अवनं, भासइ वट्टइ न यावि उववाए । वर्णवादः
अहितो छिद्दप्पेही, पगासवादी अणणुकूलो ॥ १३०५॥ जात्या आदिशब्दात् कुलादिभिश्च सद्भिरसद्भिर्वा दोषैरवण भाषते, यथा-नैते विशुद्धजाति-कुलोत्पन्नाः, न वा लोकव्यवहारकुशलाः, नाप्येते औचित्यं विदन्तीत्यादि । न चापि 10 वर्तते 'उपपाते' गुरूणां सेवावृत्तौ, 'अहितः' अनुचितविधायी, 'छिद्रप्रेक्षी' मत्सरितया गुरोदोषस्थाननिरीक्षणशीलः, 'प्रकाशवादी' सर्वसमक्षं गुरुदोषभापी, 'अननुकूलः' गुरूणामेव प्रत्यनीकः कूलवालकवत् , एष धर्माचार्यावर्णवादः ॥ १३०५ ॥
अथ सर्वसाधूनामवर्णवादमाहसाध्ववर्ण
अविसहणाऽतुरियगई, अणाणुवत्तीय अवि गुरूणं पि ।
खणमित्तपीइ-रोसा, गिहिवच्छलकाऽइसंचइआ ॥ १३०६ ॥ अहो ! अमी साधवः ‘अविषहणाः' न कस्यापि पराभवं सहन्ते, अपि तु खपक्ष-परपक्षापमाने सञ्जाते सति देशान्तरं गच्छन्ति, "तुरियगइ" त्ति अकारप्रश्लेषाद् 'अत्वरितगतयः' मायया लोकावर्जनाय मन्दगामिनः, 'अननुवर्तिनः' प्रकृत्यैव निष्ठुराः 'गुरूणामपि' महतामपि,
आस्तां सामान्यलोकस्येत्यपिशब्दार्थः, द्वितीयोऽपिशब्दः सम्भावनायाम् , सम्भाव्यन्त एवंविधा 20 अपि साधव इति, क्षणमात्रप्रीति-रोषाः' तदैव रुष्टास्तदैव च तुष्टा अनवस्थितचित्ता इत्यर्थः, 'गृहि
वत्सलाः' तैस्तैश्चाटुवचनैरात्मानं गृहस्थस्य रोचयन्ति, 'अतिसञ्चयिनः' सुबहुवस्त्र-कम्बल्यादिसङ्घहशीलाः लोभबहुला इति भावः । अत्र निर्वचनानि-इह साधवः खपक्षाद्यपमाने यद् देशान्तरं गच्छन्ति तद् अप्रीतिक-परोपतापादिभीरुतया न पराभवासहिष्णुतया, अत्वरितगतयोऽपि स्थावर
त्रसजन्तुपीडापरिहारार्थ न तु लोकरञ्जनार्थम् , अननुवर्तिनोऽपि संयमबाधाविधायिन्या अनुवर्त25 नाया अकरणात् न प्रकृतिनिठुरतया, क्षणमात्रप्रीति-रोषा अपि प्रतनुकषायतया नानवस्थितचि
ततया, गृहिवत्सला अपि 'कथं नु नामामी धर्मदेशनादिना यथाऽनुरूपोपायेन धर्म प्रतिपद्येरन् ?' इति बुद्ध्या न पुनश्चाटुकारितया, सञ्चयवन्तोऽपि ‘मा भूद् उपकरणाभावे संयम-प्रवचना-ऽऽत्मविराधना' इति बुद्ध्या न तु लोभबहुलतयेति ॥ १३०६॥ अथ मायिद्वारमाह
गृहइ आयसभावं, घाएइ गुणे परस्स संते वि।
चोरो व्य सव्वसंकी, गूढायारो वितहभासी ॥१३०७॥ _ 'गृहति' संवृणोति ‘आत्मस्वभावम्' आत्मनः सम्बन्धिनं दुष्टपरिणाम बहिर्बकवृत्त्या, तथा परस्य सम्बन्धिनः ‘गुणान्' ज्ञानादीन् सतोऽप्यभिनिवेशादिना घातयति, चौर इव 'सर्वशङ्की' प्रच्छन्नपापकारितया 'अमुकोऽमुकश्च मत्समक्षमित्थं भणिष्यति' इति सर्वस्यापि शङ्कां करोति,
मायी