________________
वना
ज्ञानावर्ण
भाप्यगाथाः १२९७-१३०४] प्रथम उद्देशः ।
४०१ बालिशप्रायलोकस्य 'विस्मयं' चित्तविभ्रमं करोति स्वयं पुनस्तेषु न विस्मयते एष परविस्मापकः ॥ १३०१ ॥ उक्ता कान्दपी भावना । अथ देवकिल्विपिकी बिभावयिषुराह-- नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं । ..
दैवकिल्वि.
षिकी भा. . माई अवन्नवाई, किबिसियं भावणं कुणइ ॥ १३०२॥ ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् एतेषामवर्णवादी, तथा 'मायी' स्वभावनिगू-5 हनादिना मायावान् एष कित्विषिकी भावनां करोतीति नियुक्तिगाथासमासार्थः ॥ १३०२ ।। अथ व्यासार्थमाह
काया वया य ते चिय, ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारिगाणं, जोइसजोणीहि किं च पुणो ॥ १३०३ ॥ . वादः इह केचिद् दुर्विदग्धाः प्रवचनाशातनापातकमगणयन्त इत्थं श्रुतस्यावणं ब्रुवते, यथा-षट्-10 जीवनिकायामपि षट् कायाः प्ररूप्यन्ते, शस्त्रपरिज्ञायामपि त एव, अन्येष्वप्यध्ययनेषु बहुशस्त एवोपवर्ण्यन्ते; एवं व्रतान्यपि पुनः पुनस्तान्येव प्रतिपाद्यन्ते; तथा त एव प्रमादा-ऽप्रमादाः पुनः पुनर्वर्ण्यन्ते, यथा-उत्तराध्ययनेषु आचाराङ्गे वा; एवं च पुनरुक्तदोषः । किञ्च यदि केवलस्यैव मोक्षस्य साधनार्थमयं प्रयासस्तर्हि 'मोक्षाधिकारिणां' साधूनां सूर्यप्रज्ञप्त्यादिना ज्योतिषशास्त्रेण योनिप्राभृतेन वा किं पुनः कार्यम् ? न किञ्चिदित्यर्थः । तेषामित्थं ब्रुवाणाना- 15 मिदमुत्तरम्-इह प्रवचने यत एव कायादयो भूयो भूयः प्ररूप्यन्ते तद् महता यत्नेनाऽमी परिपालनीयाः, इदमेव धर्मरहस्यमित्यादरातिशयख्यापनार्थत्वाद् न पुनरुक्तम् । यत उक्तम्
अनुवादा-ऽऽदर-वीप्सा-भृशार्थ-विनियोग-हेत्वसूयासु ।
ईषत्सम्भ्रम-विस्मय-गणना-स्मरणेष्वपुनरुक्तम् ॥ - ज्योतिःशास्त्रादि च शिप्यप्रव्राजनादिशुभकार्योपयोगफलत्वात् परम्परया मुक्तिफलमेवेति न 20 कश्चिद् दोषः ॥ १३०३ ॥ गतो ज्ञानावर्णवादः । अथ केवल्यवर्णवादमाह____एगंतरमुप्पाए, अन्नोन्नावरणया दुवेण्हं पि।
. केवल्य__केवलदसण-णाणाणमेगकाले व एगत्तं ॥ १३०४ ॥
. वर्णवादः .. इह केवलिनामवर्णवादो यथा-किमेषां ज्ञान-दर्शनोपयोगौ क्रमेण भवतः ? उत युगपत् । यद्याद्यः पक्षस्ततो यं समयं जानाति तं समयं न पश्यति यं समयं पश्यति तं समयं न जानाती-23 त्येवमेकान्तरिते उत्पादे 'द्वयोरपि' केवलज्ञान-दर्शनयोरन्योन्यावरणता भवेत् , ज्ञानावरण-दर्शनावरणयोः समूलका कषितत्वाद् अपरस्य चाऽऽवारकस्याऽभावात् परम्परावारकतैवानयोः प्राप्नोतीति भावः । अथ युगपदिति. द्वितीयः पक्षः कक्षीक्रियते सोऽपि न क्षोदक्षमः, कुतः ? इत्याह--'एककाले' युगपद् उपयोगद्वयेऽङ्गीक्रियमाणे वाशब्दः पक्षान्तरद्योतनार्थः 'द्वयोरपि' साकारा-ऽनाकारोपयोगयोरेकत्वं प्रामोति, तुल्यकालभावित्वादिति । अत्रोत्तरम्-इह तथाजीव- 30 खाभाव्यादेव सर्वस्यापि केवलिन एकस्मिन् समये एकतर एवोपयोगो भवति न द्वौ, "सवस्स
१ स्वशक्तिनिगू भा० विना ॥ २°ल्विषीं भाव भा० ॥ ३°भावित्वेन परस्परं संलु लितत्वादिति भा० ॥