________________
-10
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ __ "कहकहकहस्स" ति तृतीयार्थे षष्ठी, 'कहकहकहेन' उच्चैःस्वरेण विवृतवदनस्य यद् हसनम्-अट्टहास इत्यर्थः, यश्च ‘कन्दर्पः' स्वानुरूपेण सह परिहासः, ये च 'अनिभृताः' निमुरवक्रोत्यादिरूपा गुदिनाऽपि समं संलापाः, यच्च कन्दर्पकथायाः-कामसम्बद्धायाः कथायाः
कथनम् , यश्च कन्दर्पस्योपदेशः-'इत्थमित्थं कुरु' इति विधानद्वारेण कामोपदेशः, या च 'शंसा' .5 प्रशंसा कामविषया, एष सर्वोऽपि कन्दर्प उच्यते ॥ १२९६ ॥ गतं कन्दर्पद्वारम् । अथ कौत्कुच्यद्वारमाह
भुम-नयण-वयण-दसणच्छदेहिं कर-पाद-कण्णमाईहिं । कौत्कुच्यम्
तं तं करेइ जह हस्सए परो अत्तणा अहसं ॥१२९७ ॥ चायाकोकुइओ पुण, तं जपइ जेण हस्सए अन्नो ।
नाणाविहजीवरुए, कुबइ मुहतूरए चेव ॥ १२९८॥ कुत्कुचः-भण्डचेष्टः तस्य भावः कौल्कुच्यं तद् विद्यते यस्य स कौत्कुच्यवान् । स च द्वेधा-कायेन वाचा च । तत्र भ्रू-नयन-वदन-दशनच्छदैः कर-चरण-कर्णादिभिश्च देहावयवैस्तां तां चेष्टामात्मना अहसन्नेव करोति यथा परो हसति एष कायकौकुच्यवानुच्यते ॥१२९७॥
वाचा कौत्कुच्यवान् पुनस्तत् किमपि परिहासप्रधानं वचनं जल्पति येनाऽन्यो हसति, नाना15 विधानां वा मयूर-मार्जार-कोकिलादीनां जीवानां रुतानि-कूजितानि 'मुखतूर्याणि वा' मुखेनातो
द्यवादनलक्षणानि तथा करोति यथा परस्य हास्यमायाति ॥ १२९८ ॥ अथ द्रवशीलमाहद्रवशीलः
भासइ दुयं दुयं गच्छए अ दरिउ व्य गोविसो सरए।
सव्वदुयदुयकारी, फुट्टइ व ठिओ वि दप्पेणं ॥ १२९९ ॥ 'द्रुतं द्रुतम्' असमीक्ष्य सम्भ्रमावेशवशाद् यो भाषते । यश्च द्रुतं द्रुतं गच्छति, क इव ? 20 इत्याह-शरदि 'दर्पित इव' दोंद्धर इव 'गोवृषः' बलीवर्दविशेषः । शरदि हि प्रचुरचारिध्राणतया मक्षिकाद्युपद्रवरहिततया च गोवृषो मदोद्रेकादुच्छृङ्खलः पर्यटतीति, एवमसावपि निरकुशस्त्वरितं त्वरितं गच्छति । यश्च 'सर्वद्रुतद्रुतकारी' प्रत्युपेक्षणादीनां सर्वासामपि क्रियाणामतित्वरितकारी । यश्च दर्पण तीव्रोद्रेकवशात् स्फुटतीव 'स्थितोऽपि' खभावस्थोऽपि सन् , गम
नादिक्रियामकुर्वन्नपीत्यर्थः । एष द्रवशील उच्यते ॥ १२९९ ॥ अथ हासकरमाहहासकरः 25
वेस-चयणेहिँ हासं, जणयंतो अप्पणो परेसिं च । वेम-योनि
अह हासणो त्ति भन्नइ, घयणो व्य छले नियच्छंतो ॥ १३०० ॥ "घयणो " भाण्ड इव परेषां 'छिद्राणि' विरूपवेष-भाषाविपर्ययाणि "नियच्छंतो" त्ति निरन्तरमन्वेषयन् तादृशेरेव वेष-वचनैर्विचित्रैरात्मनः ‘परेषां च' प्रेक्षकाणां हास्यं 'जनयन्' उत्पादयन् अथैषः 'हासनः' हास्यकर इति भण्यते ॥ १३०० ॥ अथ परविस्मापकमाह
मुरजालमाइएहिं, तु विम्हयं कुणइ तबिहजणस्म ।
तेसु न विम्हयइ सयं, आहट्ट-कुहेडएहिं च ।। १३०१॥ सुरजालम्--इन्द्रजालम् आदिशब्दाद् अपरकौतुकपरिग्रहः तैः, तथा आदर्ताः-प्रहेलिकाः कुहेटकाः-वक्रोक्तिविशेषरूपास्तैश्च तथाविधग्राम्यलोकप्रसिद्धैर्यत् तद्विधजनस्य' तादृशस्य
परविस्मा- 30
पकः