________________
भावनाः
भाष्यगाथाः १२९०-९६] प्रथम उद्देशः । तासु भाव्यमानासु गुणाः-खेद-विनोदादयः प्रागुक्ता भवन्तीति चुर्ण्यभिप्रायेण व्याख्यानम् । विशेषचूर्ण्यभिप्रायः पुनरयम्-यत्रं च प्रशस्तेऽपि वस्तुनि विवेकः परित्यागोऽस्य घटते तत्र गुणा एव भवन्ति । यथा--आचार्यादीनामवर्णभाषण-श्रवणे औदासीन्यमवलम्बमानस्याप्यस्य गुण एव भवति, न पुनः स्थविरकल्पिकस्येव यथाशक्ति तन्निवारणमकुर्वतो दोष इति ॥ १२९२ ॥ अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाहकंदप्प देवकिव्विस, अभिओगा आसुरा य सम्मोहा।।
अप्रशस्ता . एसा य संकिलिट्ठा, पंचविहा भावणा मणिया ॥ १२९३ ॥ कन्दर्पः-कामस्तत्प्रधानाः पिङ्गप्राया देवविशेषाः कन्दी उच्यन्ते तेषामियं कान्दी । एवं देवानां मध्ये किल्मिषाः-पापा अत एवास्पृश्यादिधर्माणश्चण्डालप्रायास्तेषामियं दैवकिल्बिपी । आ-समन्ताद आभिमुख्येन वा] युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः-किङ्करस्थानीया 10 देवविशेषास्तेषामियमाभियोगी । असुराः-भवनपतिदेवविशेषास्तेषामियमासुरी । सम्मुह्यन्तीति सम्मोहाः-मूढात्मानो देवविशेषास्तेषामियं साम्मोही । गाथायां प्राकृतत्वाद् आप्प्रत्ययः । एषा अप्रशस्ता पञ्चविघा भावना तत्तत्वभावाभ्यासरूपा भणिता ॥ १२९३ ॥ अथासामेव फलमाह
अप्रशस्तजो संजओ वि एआसु अप्पसत्थासु भावणं कुणइ ।
भावनासो तबिहेसु गच्छइ, सुरेसु भइओ चरणहीणो ॥ १२९४ ॥ 15 नां फलम् यः 'संयतोऽपि' व्यवहारतः साधुरप्येताभिरप्रशस्ताभिर्भावनाभिः, गाथायां तृतीयार्थे सप्तमी, 'भावनम्' आत्मनो वासनं करोति सः 'तद्विधेषु' तादृशेषु कान्दर्पिकादिषु सुरेषु गच्छति । यस्तु 'चेरणरहितः' सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा सः 'भाज्यः' तद्विधेषु वा देवेषूत्पद्यते नरक-तिर्यङ्-मनुष्येषु वा ॥ १२९४ ॥ अथासामेव प्ररूपणां चिकीर्षुः प्रथमतः कन्दर्पभावनां प्ररूपयति
कंदप्पे कुक्कुइए, दवसीले यावि हासणकरे य ।
विम्हावितो य परं, कंदप्पं भावणं कुणइ ॥ १२९५ ॥ इह कन्दर्पशब्देन कन्दर्पवानुच्यते, एवं कौत्कुच्यवान् द्रवशीलश्चापि हासनकरश्च विस्मापयश्च परं कान्दी भावनां करोतीति सङ्घहगाथासमासार्थः ॥१२९५॥ अथ विस्तरार्थमाहकहकहकहस्स हसणं, कंदप्पो अनिहुया य संलावा ।
25 कन्दर्पः कंदप्पकहाकहणं, कंदप्पुवएस संसा य ॥ १२९६ ॥ १ “पश्च इति सङ्ख्या एकादिषट्रादिप्रतिषेधार्थम् । ताओ भावणाओ जाणित्ता अप्पसत्थाणं विवेगो कातव्यो, परिवर्जनमित्यर्थः । एवमेव अवधारणे । किमवधारयितव्यम् ? उच्यते-'संखा त परूवणता' जधा अप्पसत्थाणं तधा पसत्थाण वि । णवरं 'जत्थ विवेगो' ति वाक्यं अप्पसत्थाणं, 'गुणा तत्थ' ति पसत्थाणं घेत्तव्या इति वाक्यशेषः । ते च गुणास्तपः-सत्त्वादयः ।" इति चूर्णौ ॥ २ "प्रशस्तस्यापि विवेक एव कार्यः, यथा आचार्यादीनामवर्णभाषण-श्रवणे माध्यस्थ्यं भावयतो गुण एव भवति, न स्थविरकल्पवद् दोषः।" इति विशेषचौँ । ३ उ ता०॥ ४ 'तद्विषयेषु' ताह° भा० विना ॥ ५ टीकाकृता "चरणरहिओ” इतिपाठानुसारेण व्याख्यातम् , न चासौ पाठः कचनाप्युपलभ्यते । चूर्णी विशेषचूर्णौ च "चरणहीणो" इति पाठ आहतोऽस्ति । तथाहि-"चरणहीणो ति जो चरणविहूणो सो" इति ॥ ६°ति नियुक्तिगाथा मो० ले० ॥
20
कन्दर्प.
भावना