SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 10 ३९८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ तपोभावनाभावितस्य 'खेदविनोदः' परिश्रमजयो भवति, चतुर्थादितपसा न परिश्राम्यतीत्यर्थः । सत्त्वभावनाभावितस्य साध्वसं-भयं तस्य जयो भवति । एकत्वभावनाभावितस्य 'लघुता' 'एक एवाहम्' इतिवुद्ध्या लघुभावो भवति । श्रुतभावनाभावितस्य तपो भवति, "न वि अत्थि न वि य होही, सज्झायसमं तवोकम्मं ।" ( गा० ११६९) इति वचनात् । धृतिभावनाभावितस्य वजनादिषु 'असङ्गः' निर्ममत्वं भवति । अन्यच्च श्रुतभावनां भावयन् अन्येषामपि श्रद्धाजननं करोति, यथा—वयमप्येवं कदा विधास्यामः ? इति । कालज्ञानं च पौरुष्यादिषु नान्यतः सकाशादवगन्तव्यं भवति किन्तु श्रुतपरावर्त्तनानुसारेण स्वयमेवोच्छ्रासादिकालकलाकलनतः पौरुप्यादिमानं जानाति । यत एते गुणास्ततो भावनीय आत्मा भावनया ॥ १२८९ ।। ___ सा च द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतस्तावदाह सरवेह-आस-हत्थी-पवगाईया उ भावणा दग्वे । अब्भास भावण त्ति य, एगहूँ तत्थिमा भावे ॥ १२९० ॥ इह धानुको यद् अभ्यासविशेषात् प्रथमं स्थूलद्रव्यं ततो वालबद्धां कपर्दिकां ततः सुनितिः खरेणापि लक्ष्यस्य वेधं करोति, यच्चाऽश्वः शीघ्रं शीघ्रतरं धावमानः शिक्षाविशेषाद् महदपि गादिकं लङ्घयति, हस्ती वा शिष्यमाणः प्रथमं काष्ठानि ततः क्षुल्लकान् पाषाणान् ततो 15 गोलिकां तदनु बदराणि तदनन्तरं सिद्धार्थानप्यभ्यासातिशयाद गृह्णाति, प्लवको वा प्रथमं वंशे विलग्नः सन् प्लवते ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति, आदिशब्दाचित्रकरादिपरिग्रहः । एताः सर्वा अपि द्रव्यभावनाः । अभ्यास इति वा भावनेति वा एकार्थम् । तत्रैता वक्ष्यमाणलक्षणाः 'भावे' भावतो भावना मन्तव्याः ॥ १२९० ॥ ता एवाह दुविहाओं भावणाओ, असंकिलिट्ठा य संकिलिट्ठा य । मुत्तूण संकिलिट्ठा, असंकिलिङ्काहि भावंति ॥ १२९१ ॥ द्विविधाश्च भावतो भावनाः । 'असंक्लिष्टाः' शुभाः 'संक्लिष्टाश्च' अशुभाः । तत्र मुक्त्वा संक्लिष्टभावना असंक्लिष्टाभिर्भावनाभिर्भावयन्ति जिनकल्पं प्रतिपित्सव इति ।। १२९१ ।। अथ कास्ताः संक्लिष्टभावनाः ? इत्याशङ्कापनोदाय तत्वरूपमभिधित्सुराह संखा य परूवणया, होइ विवेगो य अप्पसत्थासु । एमेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ ॥ १२९२ ॥ अप्रशस्तभावनानां सङ्ख्या पञ्चेति लक्षणा निरूपणीया । प्ररूपणा च तासां कर्तव्या । तासां चाप्रशस्तानां 'विवेकः' परिहारो भवति । एवमेव 'प्रशस्ताखपि' तपःप्रभृतिभावनासु सङ्ख्या प्ररूपणा च वक्तव्या । नवरं "जत्थ विवेगो" ति यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रष्टयोः; ता विवेक्तव्याः-परित्याज्या इति भावः । “गुणा तत्थ" ति यास्तु प्रशस्ता भावनाः १°नातीति भावः । यत भा० ॥ २ °षात् पद्भ्यां भुवमस्पृशन् मह° भा० ॥ ३ °नाः। अथ भावनेति कोऽर्थः ? इत्याह-अभ्यास भा० ॥ ४ °व्या न प्रशस्ता इति । 'तत्र' इति प्रशस्तभावनासु भाव्यमानासु गुणा भवन्ति, ते च "खेदविणोओ" (गा० १२८९ ) इत्यादिना प्रागेव भाविता इति चूर्ण्यभिप्रायेण व्याख्यानम् । अथ विशेषचूर्ण्यभिप्रायेण व्याख्यायते-"जत्थ विवेगो" त्ति यत्र प्रशस्तेऽपि वस्तुनि भा०॥ संक्लिष्टभावना नां फलम्
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy