SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 16 भाष्यगाथाः १२८४-८९] प्रथम उद्देशः । ३९७ प्रायोग्ये उपकरणे लब्धे सति प्राक्तनमुपकरणं व्युत्सृजतीति ॥ १२८५ ॥ गतमुपकरणद्वारम् । अथ परिकर्मद्वारम्-परिकर्मेति वा भावनेति वा एकार्थम् । ततोऽयमात्मानं भावनाभिः सम्यग् भावयति । आह सर्वेऽपि साधवस्तावद् भावितान्तरात्मानो भवन्ति अतः किं पुनर्भावयितव्यम् ? उच्यते--- इंदिय-कसाय-जोगा, विणियमिया जइ वि सव्वसाहूहिँ । तह विजओ कायव्वो, तज्जयसिद्धिं गणितेणं ॥ १२८६॥ यद्यपि सर्वसाधुभिरिन्द्रिय-कषाय-योगा विविधैः प्रकारैर्नियमिताः-जितास्तथापि जिनकल्पं प्रतिपत्तुकामेन पुनरेतेषां जयः कर्तव्यः । तत्रैहिका-ऽऽमुप्मिकापायपरिभावनादिना इन्द्रियाणां जयस्तथा कर्तव्यो यथेष्टा-ऽनिष्टविषयेषु गोचरमुपागतेषु राग-द्वेषयोरुत्पत्तिरेव न भवति । कषायाणामपि जये तथा यत्न आस्थेयो यथा दुर्वचनश्रवणादि बाह्यं कारणमवाप्यापि तेषामुदय एव 10 नाविर्भवति । योगानामपि मनःप्रभृतीनां जये तथा यतितव्यं यथा तेषामार्तध्यानादिकं दुष्पणिधानमेव नोदयमासादयति । अथ किमर्थमित्थमिन्द्रिय-कषाय-योगानां जयः कर्त्तव्यः ? इत्याहतेषाम्-इन्द्रियादीनां जयस्तजयः तज्जयेन सिद्धिः-जिनकल्पपारप्राप्तिस्तां 'गणयता' मन्यमानेनेन्द्रियादीनां जयः करणीयः ।। १२८६ ॥ अत्रैव विशेषमाह जोगिदिएहिं न तहा, अहिगारो निजिएहिं न हु ताई। कलुसेहिँ विरहियाई, दुक्खसईवीयभूयाई॥ १२८७ ॥ योगैरिन्द्रियैश्च निर्जितैर्न तथा 'अधिकारः' प्रयोजनम् , यतो नैव 'तानि' योगेन्द्रियाणि 'कलुषैः' कषायैर्विरहितानि दुःखसस्यबीजभूतानि भवन्ति किन्तु कषाया एव दुःखपरम्पराया मूलबीजमिति भावः ॥ १२८७ ॥ आह यद्येवं योगा इन्द्रियाणि च न जेतव्यानि, तेषां कषायविरहितानां दुःखहेतुत्वायोगात् , उच्यते जेण उ आयाणेहिं, न विणा कलुसाण होइ उप्पत्ती । तो तजयं ववसिमो, कलुसजयं चेव इच्छंता ॥ १२८८ ॥ आदीयन्ते-गृह्यन्ते शब्दादयोऽर्था एभिरित्यादानानि-इन्द्रियाण्युच्यन्ते तैः, उपलक्षणस्वाद् योगैश्च विना येन हेतुना 'कलुषाणां' कषायाणामुत्पत्तिर्न भवति । कथम् ? इति चेद् उच्यतेइह माया-लोभौ रागः क्रोध-मानौ तु द्वेष इत्यभिधीयते, तौ च राग-द्वेषाविष्टा-ऽनिष्टविषयान् 25 प्राप्य सञ्जायेते, ते च विषया इन्द्रियगोचरा इति कृत्वा इन्द्रियैर्विना न कषायाणामुत्पत्तिराविरस्ति । योगानपि मनोवाक्कायरूपानन्तरेण न क्वापि कषाया उदीयमाना दृश्यन्त इति तैरपि सह कषायाणामविनाभावो द्रष्टव्यः । यतश्चैवमतः 'तज्जयम्' इन्द्रिय-योगजयं 'व्यवस्यामः' इच्छामः 'कलुषजयं' कषायजयमेव इच्छन्त इति ॥ १२८८ ॥ आह के पुनर्गुणा भावनाभावितान्तरात्मनो भवन्ति ? इति उच्यते खेयविणोओ साहसजओ य लहुया तवो असंगो अ । सद्धाजणणं च परे, कालन्नाणं च नऽन्नत्तो ॥ १२८९ ॥ १ साहसे जयो भवति । साहसं णाम भयं तंण उप्पज्जति । इ 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy