________________
सयमेव आउकालं, नाउं पोच्छित्तु वा बहुं सेसं । सुबहुगुणलाभकखी, विहारमभुजयं भजइ । १२८४ ॥
स्वयमेवायुःकालं सातिशयश्रुतोपयोगाद् 'बहु' दीर्घं 'शेषम् ' अवशिष्यमाणं ज्ञात्वा पृष्ट्वा वाऽन्यं श्रुताद्यतिशययुक्तमाचार्यं बहुशेषमवबुध्य ततः सुबहुगुणलाभकाङ्क्षी सन् विहारमभ्युद्यतं 'भजति' प्रतिपद्यत इत्यर्थः । इह चायं विधिः - यदि स्तोकमेवायुरवशिप्यते ततः पादपोपगमादीनामेकतरमभ्युद्यतमरणं प्रतिपद्यते, अथ प्रचुरमायुः परं जङ्घाबलपरिक्षीणस्ततो वृद्धावास10 मध्यास्ते, अथाऽऽयुर्दीर्घं न च जङ्घाबलपरिक्षीणस्तदाऽभ्युद्यतविहारं प्रतिपद्यत इति ॥ १२८४ ॥
गतमव्यवच्छित्तिमनोद्वारम् । अथ पञ्चतुलनेति द्वारम् – पञ्चानाम् - आचार्योपाध्याय- प्रवर्त्तकस्थविर-गणावच्छेदकानां तुलना भवति, यथा -- त्रयाणामभ्युद्यत [ मरण-वृद्धावासा ऽभ्युद्यत ] विहाराणां कतरं प्रतिपद्यामहे ? । इह चैत एव प्रायोऽभ्युद्यतविहारस्याधिकारिण इति कृत्वा पचेति सङ्क्षयानियमः कृतः । इत्थमात्मानं तोलयित्वा यदि जिनकल्पं प्रतिपित्सुस्तत इत्थं विधिं करोतिगणनिक्खेवित्त रिओ, गणिस्स जो व ठविओ जहिं ठाणे ।
उवहिं च अहागडयं, गिण्हइ जावऽन्न णुप्पाए ॥। १२८५ ॥
‘गणिनः' आचार्यस्य गणनिक्षेपः 'इत्वरः' परिमितकालीनो भवति, यो वा उपाध्यायादिर्यत्र 'स्थाने' पदे स्थापितः स तत्पदमात्मतुल्यगुणे साधावित्वरनिक्षेपेण निक्षिपति । आह किमर्थमसावित्वरं गणादिनिक्षेपं विदधाति ? न यावज्जीविकम् ? उच्यते - इह चाष्टकविवरगामिना 20 शिलीमुखेन वामलोचने पुत्रिकाया वेधनमिव दुष्करं गणाद्यनुपालनम्, अतः पश्यामस्तावत्‘एतेऽभिनवाचार्यप्रभृतयः किमस्य गणादेरनुपालनं कर्तुं यथावदीशते वा ? न वा ?, यदि नेशते ततो मया न प्रतिपत्तव्यो जिनकल्पः, यतो जिनकल्पानुपालनादपि श्रेष्ठतरमितरस्य तथाविधस्याभावे सूत्रोक्तनीत्या गणाद्यनुपालनम्, बहुतरनिर्जरालाभकारणत्वात् न च बहुगुणपरित्यागेन स्वल्पगुणोपादानं विदुषां कर्तुमुचितम्, सुप्रतिष्ठितकार्यारम्भकत्वात् तेषाम्' इत्यभिसन्धाय स 25 भगवानित्वरं गणादिनिक्षेपं विदधातीति ।
३९६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अभ्युद्यतमरणं पुनस्त्रिविधम् - पादपोपगमनम् इङ्गिनीमरणं 'परिज्ञा' इति भक्तप्रत्याख्यानम् ॥ १२८३ ॥ स्याद् बुद्धिः - द्वे अप्येते अभ्युद्यतरूपतया श्रेयसी, अतः कतरदनयोः प्रतिपत्तव्यम् ? उच्यते—
15
30
5
उक्तञ्च पञ्चवस्तुकशास्त्रे इहैव प्रक्रमे श्रीहरिभद्रसूरिपूज्यैःपिच्छामु ताव एए, केरिसगा होंति अस्स ठाणस्स ? |
जोगा वि पाएणं, निवहणं दुक्करं होई || ( गा० १३८० ) नय बहुगुणचाएणं, थेवगुणपसाहणं हजणाणं ।
इकाइ कज्जं, कुसला सुपइट्टियारंभा ॥ ( गा० १३८१ )
अथोपकरणद्वारमाह – “ उवहिं च" इत्यादि । यावद् 'अन्य' जिनकल्पप्रायोम्यं शुद्धैषणायुक्तं प्रमाणोपेतं च ‘उपधिं' वस्त्रादि नोत्पादयति तावद् यथाकृतमेव गृह्णाति । ततः स्वकरूप१ पतरोपादा भा० ॥