________________
10 विहारः
भाष्यगाथाः १२७६-८३] प्रथम उद्देशः ।
३९५ एमो चेव विहारो, सीसे निप्फाययंतस्स ॥ १२७९ ॥ ‘एवं देशदर्शन कुर्वन् शिष्य-प्रतीच्छकान् प्रतीच्छ्य निष्पत्तिं सूत्रार्थग्राहणादिना द्वादश 'समाः' संवत्सराणि करोति । गतं निप्पत्तिद्वारम् । अथ विहारद्वारे व्याख्यायते-"एसो चेव" इत्यादि । एष एव विहारः शिप्यान् निप्पादयतो वेदितव्यः । इयमत्र भावना-तस्य देशदर्शनं कृत्वा गुरुपादमूलमागतस्य गुरुभिराचार्यपदमध्यारोप्य दिग्बन्धानुज्ञायां विहितायां नव-5 कल्पविधिना विहरतो यः शिष्यनिष्पादनविधिः से एवमेव द्वादश वर्षाणि यावद् विज्ञेयः, तुल्यवक्तव्यत्वादिति ॥ १२७९ ॥ अथैतदेव विहारद्वारमावृत्त्या जिनकल्पिकमाश्रित्य व्याचिख्यासुरगाथामाहअब्बोच्छित्ती मण पंचतुलण उवगरणमेव परिकम्मे ।
जिनक
ल्पिकानां तवसत्तसुएगत्ते, उवसग्गसहे य वडरुक्खे ॥ १२८० ॥ अव्यवच्छित्तिविषयं मनः प्रयुते । पञ्चानाम्-आचार्यादीनां तुलना-खयोग्यताविषया भवति, उपकरणं जिनकल्पोचितमेव गृह्णाति । 'परिकर्म' इन्द्रियादिजयरूपं करोति। तपः-सत्त्व-श्रुतैकत्वानि उपसर्गसहश्चेति पञ्च भावना भवन्ति । 'वटवृक्षे' इति जिनकल्पं तीर्थकरादीनामभावे वटवृक्षस्याधस्तात् प्रतिपद्यते इति द्वारगाथासमासार्थः ॥ १२८० ॥ अथैनामेव विवरीषुराह
अणुपालिओ य दीहो, परियाओ वायणा वि मे दिन्ना। 16
निफाइया य सीसा, सेयं खु महऽप्पणो काउं॥ १२८१॥ तेनाचार्येण सूत्रार्थयोरव्यवच्छित्तिं कृत्वा पर्यन्ते-पूर्वापररात्रकालसमये धर्मजागरिकां जाग्रतेत्थं चिन्तनीयम् , यथा-अनुपालितो मया दीर्घः 'पर्यायः' प्रव्रज्यारूपः, वाचनाऽपि मया दत्ता उचितेभ्यः प्रतीच्छकादिभ्यः, निप्पादिताश्च भूयांसः शिष्याः, तदेवं कृता तीर्थस्याव्यवच्छित्तिः, तत्करणेन विहितमात्मनः ऋणमोक्षणम् , अत ऊर्दू 'श्रेयः' प्रशस्यतरं ममात्मनो हितं कर्तुम् १० ॥ १२८१ ॥ किं नाम हितम् ? इति चेद् उच्यते
किन्नु विहारेणऽब्भुञ्जएण विहरामऽणुत्तरगुणेणं ।
आओ अब्भुज्जयसासणेण विहिणा अणुमरामि ॥ १२८२ ॥ 'किन्नु' इति वितर्के, 'अभ्युद्यतविहारेण' जिनकल्पादिना 'अनुत्तरगुणेन' अनुत्तराः-अनन्यसामान्या गुणाः-निर्ममत्वादयो यस्मिन् स तथा तेन अहं विहरामि ? “आउ" त्ति उताहो 25 "अब्भुज्जयसासणेणं' ति सूचकत्वात् सूत्रस्याऽभ्युद्यतमरणविषयेण शासनोक्तेन विधिना 'अनुनिये' अनु-पश्चात् संलेखनाद्युत्तरकालं मरणं प्रतिपद्येऽहम् ? इति ॥ १२८२ ।। अभ्युद्यतविहार-मरणयोः खरूपमाह
जिण सुद्ध अहालंदे, तिविहो अब्भुञ्जओ अह विहारो।
अब्भुजयमरणं पुण, पाओवग-इंगिणि-परिन्ना ॥ १२८३ ॥ जिनकल्पः शुद्धपरिहारकल्पो यथालन्दकल्पश्चेति त्रिविधोऽभ्युद्यतोऽथैष विहारो मन्तव्यः । १°ग्रहणा मो० ले. विना ॥ २ सः 'एष एव' अनन्तरोक्तो विज्ञेयः, तुल्य भा० । ३ °कल्पमपवादतो वट° भा० ॥
30