________________
३९४
सनियुक्ति-लघुभाग्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ___को नाम सारथीनां मध्ये स भवति यः 'भद्रवाजिनः' विनीताश्वान् दमयेत् ? न कश्चिदसौ, असारथिरेवेत्यर्थः । 'दुष्टान्' अविनीतानपि योऽश्वान् 'दमयति' शिक्षा ग्राहयति तम् 'आश्विकम्' अश्वदमं ब्रुवते लौकिकाः ॥ १२७५ ॥ अपि च
होति हु पमाय-खलिया, पुबव्भासा य दुच्चया भंते ! ।
न चिरं च जंतणेयं, हिया य अचंतियं अंते ॥ १२७६ ॥ ___ 'भदन्त !' परमकल्याणयोगिन् ! 'पूर्वाभ्यासाद्' अनादिभवाभ्यस्ततया दुस्त्यजानि प्रमाद-स्खलितानि भवन्ति प्रायो जन्तूनाम् । प्रमादाः-निद्रा-विकथादयः, स्खलितानि-अनुपयुक्तगमनभाषणादीनि । न चेयं स्मारणादिरूपा यन्त्रणा 'चिरं' चिरकालं भाविनी, सात्मीभावमुपगते
ह्यमीषामप्रमादे को नाम स्मारणादिकं करिप्यति ? इति भावः । न चेयमापातवत् परिणामेऽपि 10 दुस्सहा किन्तु 'हिता च' पथ्या 'आत्यन्तिकम्' अतिशयेन 'अन्ते' अवसाने परिणामे इत्यर्थः । यच परिणामसुन्दरं तदापातकटुकमप्युपादेयम् ॥ १२७६ ॥ अत्रान्तरे सूरयस्तेषां प्रमादिसाधूनां तीव्रतरं संवेगमवगम्य तानेव स्थिरीकर्तुं राजदृष्टान्तं कुर्वन्ति
अच्छिरुयालु नरिंदो, आगंतुअविजगुलियसंसणया ।
विसहामि त्ति य भणिए, अंजण वियणा सुहं पच्छा ।। १२७७॥ 18 एगो राया । तस्स अच्छिरुया जाया । वत्थवविजेहिं न सकिओ तिगिच्छिउं । अन्नो अ
आगंतुओ विज्जो आगंतुं भणइ-मम अत्थि गुलियाओ अच्छिसूलपसमणीओ, ताहिं अंजिएसु अच्छीसु तिवतरा दुरहियासा वेयणा भवइ मुहुत्तं, जइ न वि मे मारणाए संदिसाहि तो अंजेमि ते अच्छीणि । 'न मारेमि' ति अन्भुयगए अंजिएसु अच्छीसु तिबतरा वेयणा जाया। ताहे रन्ना भणियं-अच्छीणि मे पडियाणि, मारेह तं वेजं । तेहिं अब्भुवगंतुं न मारिओ। 20 मुहुत्तंतरेण उवसंता वेयणा । पोराणाणि अच्छीणि जायाणि । विजो पूइओ ॥
अथ गाथाक्षरार्थः-अक्ष्णः-चक्षुषो या रुग्-रोगस्तद्वान् कश्चिन्नरेन्द्रः । तस्य चागन्तुकवैद्येन गुटिकानां शंसना-स्वरूपकथना । ततो राज्ञा 'विषहाम्यहं वेदनाम्' इति भणिते वैद्येन चक्षुषोर्गुटिकाभिरञ्जनम् । ततो वेदना । पश्चात् क्रमेण सुखं सञ्जातम् , प्रगुणीभूते अक्षिणी इति ।
एष दृष्टान्तोऽयमर्थोपनयः---यथा तस्य राज्ञस्तत्कालदुस्सहमपि गुटिकाञ्जनं क्रमेण चक्षुषोः प्रगु25 णीकरणात् परिणामसुन्दरं समजनि, एवं भवतामपि स्मारणादिकं खर-परुषत्वाद् यद्यप्यापातकटुकं तथापि परिणामसुन्दरमेव द्रष्टव्यम् , इह परत्र च सकलकल्याणपरम्पराकारणत्वादिति ॥१२७७॥ उक्तानुक्तविधिसङ्ग्रहमाह
इय अविणीयविवेगो, विगिंचियाणं च संगहो भूओ ।
जे उ निसग्गविणीया, सारणया केवलं तेसिं ॥ १२७८॥ 30 "इय" एवमविनीतानां विवेकः-परित्यागः । “विगिंचियाणं च" ति परित्यक्तानां पुनरा
वृत्तानां भूयः सङ्ग्रहो विधेयः । ये तु निसर्गेण-खभावेन विनीतास्तेषां स्मारणेव केवलं कर्तव्या, यथा 'इदमित्थं कर्त्तव्यम्' इति ॥ १२७८ ॥ उपसंहरन्नाह
एवं पडिच्छिऊणं, निप्फत्तिं कुणइ बारस समाओ ।