________________
भाष्यगाथाः १२७०-७५ ]
प्रथम उद्देशः ।
३.९३
'ततः परं' वारत्रयादूर्द्धं यदि न निवर्त्तते तदा निष्काशना कर्त्तव्या, निर्गच्छ मदीयगच्छादिति । अथासौ स्वयं परेण वा प्रज्ञापितः सन् 'आवृत्तः प्रमादात् प्रतिनिवृत्तः प्रतिभणति 'भगवन् ! क्षमध्वं मदीयमपराधनिकुरम्बम् न पुनरेवं करिष्यामि' इति, ततो यद् द्वारगाथायां पत्रज्ञातं सूचितं तदुपवर्ण्यते -- " तंबोलपत्तनायं " ति, यथा तम्बोलपत्रं कुथितं सद् यदि न परित्यज्यते ततः शेषाण्यपि पत्राणि कोथयति । एवं त्वमपि स्वयं विनष्टो ममाऽन्यानपि साधून् 5 विनाशयिष्यसीति कृत्वा निष्काशितोऽस्माभिः । सम्प्रत्यप्रमत्तेन भवितव्यं मासगुरु च ते प्रायश्चित्तम् ॥ १२७२ ॥ अथ निष्काशनस्यैव विधिमाह-
सुहमेगो निच्छुभड़, णेगा भणिया उ जड़ न वच्चंति । अन्नावएस उवहिं, जग्गावण सारिकह गमणं ॥ १२७३ ॥
पुनः प्रमाद्यन्त को वाऽनेके वा । यद्येकस्ततः सुखेनैव 'निर्गच्छ मद्गच्छात्' इत्यभिधाय 10 निष्काश्यते । अथाने के - बहवस्ततस्ते यदि 'निर्गच्छत' इति भणिता अपि 'वयं बहवस्तिष्ठामः' इत्यवष्टम्भं कृत्वा न व्रजन्ति ततः शेषसाधून् रहस्यं ज्ञापयित्वाऽन्येन केनापि अपदेशेन - मिषेण यथा न तेषां शङ्का भवति तथोपधिं विहारयोग्यं कारयित्वा अन्यव्यपदेशेनैव ते रात्रौ चिरं जागरणं कारापणीया यथा न प्रातः शीघ्रमुत्तिष्ठन्ति । "सारिकह" त्ति सागारिकः - शय्यातरस्तस्याग्रतो रहसि कथनीयम्, यथा -- वयं प्रेभात एवामुकं ग्रामं वजिष्यामः, यदि कोऽपि महता 15 निर्बन्धेन युष्मान् प्रश्नयेत्, यथा - आचार्याः क्व गताः ? इति ततो भवद्भिस्तस्य यथावद् निवे - दनीयम् । “गमणं” ति ततो गमनं कर्त्तव्यम् ॥ १२७३ ।। गतेषु चाचार्येषु यदि ते ब्रूयुःमुका मो दंडरुणो, भणंति इइ जे न तेसु अहिगारो ।
सेजार निबंधे, कहियाऽऽगय न विणए हाणी ।। १२७४ ॥
'अहो ! सुन्दरं समजनि यद् ' दण्डरुचेः' उग्रदण्डव्यसनिन आचार्याद् मुक्ता वयम्' इति ये 20 भणन्ति न तेष्वधिकारः । ये पुनः परित्यक्ताः सन्तो गाढं परितप्यन्ते 'आ ! कष्टम्, उज्झिता वयं वराका निःसम्बन्धबन्धुभिस्तैर्भगवद्भिः, अतः कथमिव भविष्यामः ?' इति ते शय्यातरं महता निर्बन्धेन पृच्छन्ति --- कथय कुत्रास्मान् विमुच्य गताः क्षमाश्रमणाः । स प्राह- अमुकं ग्रामम् । ततस्तेन कथिते त्वरितमागतानां तेषां न विनयहानिः कर्त्तव्या, किन्तु प्राग्वदेवाऽभ्यु - त्थानं दण्डकादिग्रहणं च कर्त्तव्यम् । ततस्ते बद्धाञ्जलिपुटाः पादपतिताश्छिन्नमुक्तावलिप्रकाशान्य- 25 श्रूणि विमुञ्चन्तो विज्ञपयन्ति — भगवन् ! क्षमध्वमस्मदीयमपराधम्, विलोकयताऽस्मान् प्रसादमन्थरया दृशा, प्रतिपद्यध्वं भूयः खप्रतीच्छकतया, कुरुतानुग्रहं स्मारणादिना, प्रणिपातपर्यवसितप्रकोपा हि भवन्ति महात्मानः, इत ऊर्द्ध वयं प्रमादं प्रयत्नतः परिहरिष्याम इति । ततो गच्छसत्काः साधवः सूरीन् कृताञ्जलयः प्रसादयन्ति ॥ १२७४ ॥ गुखो ब्रुवते - आर्याः ! अलं मम दुष्टाश्वसारथित्वकल्पेनामून् प्रति आचार्यककरणेन, एवमुक्ते साधवो भणन्तिको नाम सारहीणं, स होइ जो भद्दवाइणो दमए ।
30
दुट्ठे विउ जो आसे, दमेइ तं आसियं विंति ।। १२७५ ॥
१ एवं भवानपि भा० ॥ २ प्रातरेवा भा० ॥