________________
३९२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ 'सीदन्' सामाचार्यां प्रमाद्यन् तस्मिन्नेव दिवसेऽन्यस्यां वेलायां द्वितीये वा दिवसे पुनर्भूयोऽप्युच्यते 'तृतीया' प्रतिस्मारणा, एक उपदेशो द्वितीया स्मारणा तृतीया प्रतिस्मारणेति कृत्वा । कथम् ? इत्याह-एकस्ते महानपराधः 'सोढः' तितिक्षितोऽस्माभिः, यदि पुनर्द्वितीयं खल्पमप्यपराधं करिष्यसि ततो वयं ते "न विसहामो" न सहिप्यामः ॥ १२६९ ॥ । तथा चात्रार्द्रच्छगणकदृष्टान्तः क्रियते
गोणाइहरणगहिओ, मुक्को य पुणो सहोढ गहिओ उ ।
उल्लोल्लछगणहारी, न मुच्चए जायमाणो वि ॥ १२७० ॥ यथा कश्चित् चौरो गवादिहरणं कुर्वन्नारक्षकैर्गृहीतः ततः, 'मुञ्चत मामेकवारम् , नाहं भूयः स्वल्पमपि चौर्यं करिप्यामि' इत्युक्ते दयालुत्वाद् अपरोपरोधाद्वा तैर्मुक्तः पुनर्द्वितीयवेलायां 10 पूर्वाभ्यासवशाद् यद्यार्द्रच्छगणहारी भवति, स्वल्पचौर्यकारीति भावः, तथापि 'सहोढः' सलोप्तो
गृहीतः सन् याचमानोऽपि मोक्षणं न मुच्यते । एवं भवतोऽप्येकवारं महदपि प्रमादपदं तितिक्षितमस्माभिः, इत ऊर्द्ध तु स्तोकमपि न तितिक्षामहे । इत्थमुक्तोऽपि यदि प्रमाद्यति तदा मासलघु दण्डं दत्त्वा द्वितीयं घट्टनादृष्टान्तं कुर्वन्ति ॥ १२७० ॥ तमेवाह
घट्टिजंतं वुच्छं, इति उदिए दंडणा पुणो विइयं । 15 पासाणो संवुत्तो, अइरुचिय कुंकुमं तइए ॥ १२७१ ॥ __ यथा दुग्धमाद्रहितं सद् घट्यमानं चाल्यमानमपि "वुच्छं" ति देशीपदत्वाद् अवदग्धं विनष्टमिति यावद् , एवं भवानप्यस्माभिरित्थं स्मारणादिना घट्यमानोऽपि प्रमादमेवाऽऽसेवितवान् , 'इति' एवम् ‘उदिते' कथिते सति यदि भूयः प्रमाद्यति तदा पुनरपि 'दण्डना' मासलघुप्रायश्चित्तरूपा कर्तव्या । “वीयं" ति एतद् द्वितीयमुदाहरणम् । इत्थं दण्डितोऽपि यदि प्रमादाद 20 नोपरमते तदा रुश्चनादृष्टान्तो वक्तव्यः- "पासाणो" इत्यादि । अति-अतीव रुञ्चितं-पिष्टं
कुङ्कुमं किं पाषाणः संवृत्तः ? । एवं भवानपि महता प्रयासेन प्रतिनोद्यमानः किमप्रमत्तः ( किम प्रमत्तः ) संवृत्तः ? इति । एतत् तृतीयमुदाहरणं कृत्वा तथैव मासलघु दीयते ॥ १२७१ ॥ __ अथ यदुक्तं प्राक् “अविणीयाणं विवेगो य" त्ति (गा० १२२६) तदिदानीं भाव्यते
अविनीता नाम ये बहुशोऽपि प्रतिनोद्यमानाः प्रमाद्यन्ति, ते च च्छन्देवर्तमाना भण्यन्ते, ताँश्च 25 सूरय आत्मच्छन्देन वर्जयेयुः । कः पुनरात्मीयच्छन्दो येन ते परिहियन्ते ? इति उच्यते
तेण परं निच्छुभणा, आउट्टो पुण सयं परेहिं वा ।
तंवोलपत्तनायं, नासेहिसि मज्झ अन्ने वि ॥ १२७२ ॥ १°तीयां' प्रतिस्मारणाम् , एक मो० ले० । तीयाम्' इति प्रतिस्मारणाम्, एक भा० ॥ २°म इति ॥ १२६९ ॥ अनेन सम्बन्धेनायातमाच्छगणदृष्टान्तमाह-गोणाइ भा० ॥ ३°ति प्रतिस्मारणानन्तरमिदं घट्टनादृष्टान्तलक्षणं द्वितीयं पदं प्रयोक्तव्यम् । इत्थं भा० । "बीयं ति पडिसारणातो बीयं पयं। एवं दंडिओ पुणो वि जइ पमाएइ ताहे भण्णइ रुंचण ति" इति चूर्णी विशेषचूर्णौ च ॥ ४ पासाणो पच्छद्धं अइपीसिज्जमाणं कुंकुमं किं पासाणीभूतं ?, एवं किं तुमं पि पडिबोहिजमाणो चेव पमाएसि ? । इति चूर्णी विशेषचूर्णौ च ॥ ५एतत् प्रतिस्मारणातश्चिन्त्यमानं तृतीयपदमिति ॥ १२७१ ॥ अथ भा० । “पडिसारणाओ एयं ततियं” इति चूर्णी विशेषचूर्णौ च ॥