________________
भाष्यगाथाः १२६२-६९] प्रथम उद्देशः ।
३९१ उवएसो सारणा चेव, नइया पडिसारणा । ___ छंदे अवट्टमाणं, अप्पछंदेण वजेज्जा ॥ १२६६ ॥ उपदेशः स्मारणा चैव तृतीया प्रतिस्मारणा, ततः 'छन्दे' उपदेशेऽवर्तमानं विनेयं गुरुरपि 'आत्मच्छन्देन' आत्माभिप्रायेण 'वर्जयेत्' परित्यजेदिति नियुक्तिश्लोकसमासार्थः ॥ १२६६॥
अथ विस्तरार्थः, तत्र गुरुभिस्तान् प्रति वक्तव्यम् --अस्माकमेषा सामाचारी यद् निद्रा-5 विकथादयः प्रमादाः परिहर्त्तव्याः, एष उपदेशः । अथ स्मारणामाह
निदापमायमाइसु, सई तु खलियस्स सारणा होइ ।
नणु कहिय ते पमाया, मा सीयसु तेसु जाणतो ॥१२६७॥ निद्रव प्रमादो निद्राप्रमादः, आदिशब्दाद् अप्रत्युपेक्षित-दुष्प्रत्युपेक्षितादिपरिग्रहः, तेषु 'सकृद' एकवारं स्खलितस्य स्मारणा कर्तव्या भवति । यथा-भो महाभाग ! नन्वेते पूर्वमेवास्माभिस्तव 10 प्रमादाः कथिताः ततो जानन्नपि 'तेषु' प्रमादेषु मा सीदेत्येषा स्मारणा ॥ १२६७ ॥ अथ प्रतिस्मारणामाह
फुड-रुक्खे अचियत्त, गोणो तुदिओ व मा हु पेल्लेजा।
सजं अओ न भन्नइ, धुव सारण तं वयं भणिमो ॥ १२६८॥ स्फुटं नाम-यस्तेन प्रमादः कृतः स परिस्फुटं नाभिधीयते किन्त्वन्यव्यपदेशेन भणितव्यम् , 15 लक्षं नाम-निप्पिपासम् , यथा---'निर्धर्म ! निरक्षर ! निःशुक !' इत्यादि तदपि न वक्तव्यम् , यतः स्फुट-रूक्षेऽभिधीयमानेऽप्रीतिकं भवति ।
अत्र च गोदृष्टान्तः-यथा 'गौः' बलीवो महता भारेण लहितो हलं वा वहमानः प्रतादेनाऽतितोदितः सन् कूर्दयित्वा भारं पातयति हलं वा भनक्ति; एवमयमपि स्फुटाक्षरं रूक्षभणित्या वा भणितः कषायितत्वाद् असङ्खडं कृत्वा गच्छानिर्गच्छेत् ।
अत: एवाह-गौरिव, वाशब्दस्योपमानार्थस्याऽत्र सम्बन्धाद् . असावपि 'तुदितः' खर-परुषभणनप्रतोदेन व्यथितः सन् मा 'हुः' निश्चितं 'प्रेरयेत्' संयमभारं बलादपहस्त्य पातयेत्, मत एव च 'सद्यः' तत्कालं यदा प्रमादः कृतस्तदैव न भण्यते । “धुव सारण" ति स क्तव्य:वत्स! ध्रुवा-अवश्यं कर्तव्या संयमयोगेषु सीदतां सारणा, तथा च मौनीन्द्रवचनम्
रूसउ वा परो मा वा, विसं वा परियत्तउ ।।
भासियचा हिया भासा, सपक्खगुणकारिया ॥ ( महानि० अ० २)॥ 'तत्' तस्माद् जिनाज्ञाराधनाय वयं भवन्तमेवं भणामः, न पुनर्मत्सर-प्रद्वेषादिना ॥ १२६८॥ ' अथ "सजं अतो न भन्नइ" ति पदव्याख्यानार्थमाह
तदिवसं विइए वा, सीयंतो वुच्चए पुणो तइयं ।
एगोऽवराहो ते सोढो, वीयं पुण ते न विसहामो ॥ १२६९ ॥ १ "तः “अचियत्तं " स्फुट भा० ॥ २' त् । अतो मधुर-गम्भीरभणित्या सानुनयमेवामि घीयते । अत एवाह भा० । “एवं फुडक्खरं भणिओ कसाइओ असंखडिता नासिज्जा, तम्हा फुडसक्वं न भाणियव्वो, साणुणयं भाणियवो जहा न कसाइजइ” इति चूर्णी विशेषचूर्णौ च ॥
26
25