________________
नानामा.
10
३९०
सनियुक्ति-लघुभाप्य-वृत्तिके दृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ सर्वेषामप्येषां विधिमाहउपसम्प
पासत्थाईमुंडिएँ, आलोयण होइ दिक्खपभिईओ। लोचना
संविग्गपुराणे पुण, जप्पभिई चेव ओसन्नो ॥ १२६२॥ खसामा
समणुन्नमसमणुन्ने, जप्पभिई चेव निग्गओ गच्छा। चारीकथनं च
सोहिं पडिच्छिऊणं, सामायारिं पयंसंति ॥ १२६३ ॥ यः पार्श्वस्थादिः पार्श्वस्थादिभिरेव मुण्डितस्तस्य 'दीक्षाप्रभृति' दीक्षादिनादारभ्य आलोचना भवति । यस्तु संविनमुण्डितत्वात् पूर्वं संविग्नः पश्चाद् अवसन्नीभूतः स पुराणसंविग्न उच्यते, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, सः 'यत्प्रभृति' यद्दिनादारभ्याऽवसन्नः सञ्जातस्तत्प्रभृत्येवालोचनां दाप्यते ॥ १२६२॥ 10 यन्तु संविग्नः स द्विधा--'समनोज्ञः' साम्भोगिकः 'असमनोज्ञः' असाम्भोगिकः । स द्विविधोऽपि यत्प्रभृति खगच्छान्निर्गतस्तत एव दिनादारभ्यालोचनां दापयितव्यः । ततः 'शोधिम्' आलोचनां प्रतीच्छय यो यत् तपः छेदं मूलं वा प्रायश्चित्तमापन्नस्तस्य तद् दत्त्वा खकीयां सामाचारीमाचार्याः प्रदर्शयन्ति ॥ १२६३ ॥ किं कारणम् ? इति चेदित्याह
अवि गीय-सुयहराणं, चोइजंताण मा हु अचियत्तं ।
मेरासु य पत्तेयं, माऽसंखड पुवकरणेणं ॥ १२६४॥ __ ये गीतार्थाः श्रुतधराः, बहुश्रुता गणि-वाचकादिशब्दाभिधेया इत्यर्थः, तेषामपि, किं पुनरितरेषाम् ? इत्यपिशब्दार्थः, वितथसामाचारीकरणे नोद्यमानानां 'मैवं सामाचारीमन्यथाकारं कार्षीः' इत्यादिवचनैर्मा भृद् “अचियत्तं' अप्रीतिकम् , यतोऽन्योऽन्यं गच्छानां काश्चिदनीदृश्यः सामा
चार्यस्ततः 'प्रत्येकं' पृथक् पृथग् 'मर्यादासु' सामाचारीषु वर्तमानासु प्रवाहतः पूर्वाभ्यस्ताया एवं 20 सामाचार्याः करणेन प्रतिनोदितानां मा 'असंखडं' कलहो भवेदित्यात्मीया चक्रवालसामाचारी कथयितव्या ॥ १२६४ ॥ आह कथं पुनरभिधीयमानेऽप्रीतिकं भवेद् ? उच्यते--
गच्छइ वियारभूमाइ वायओ देह कप्पियारं से ।
तम्हा उ चक्कवालं, कहिंति अणहिंडिय निसिं वा ॥ १२६५ ॥ अयं वाचको विचारभूभ्याम् आदिशब्दाद भक्त-पानग्रहणादी गच्छति अतो ददत 'कल्पितारं' 25 कमपि कल्पिकं साधु 'से' तस्य वाचकस्य येन स सामाचारी दर्शयति । तत एवमभिधीयमाने तस्य वाचकस्य महदप्रीतिकं भवति, यथा-अहो ! स्वगणं विमुच्य परगणमुपसम्पन्ना वयमप्येवं परिभूयामहे इति । यत एवं तस्मात् चक्रवालसामाचारी-प्रतिदिनक्रियाकलापरूपां तेषां पुरत आचार्याः कथयन्ति यथा ते कल्पिका भवन्ति । यावच्च सा तेषां प्ररूप्यते तावत् “अहिंडय" ति ते मिक्षार्थं न हिण्डाप्यन्ते, मा भूत् तेषां सामाचारीशिक्षणव्याघातः । अथ न संस्तरति ततः 30 'निशि' रात्री ते सामाचारी ग्राहयितव्या इति ।। १२६५ ॥
गतं प्रतीच्छनाद्वारम् । अथ वाचनाद्वारम् । तेषां गृहीतसामाचारीकाणां सूत्रार्थवाचना दातव्या । वाच्यमानानां च तेषां सामाचारीकरणे प्रमाद्यतां यो विधिस्तमभिधित्सुर श्लोकमाह
१ पूर्वपर° त० दे० ॥ २ पुचपत्तेणं ता० ॥ ३ रणेनोद्यच्छमाना त० डे० ।।