________________
३८९
भाष्यगाथाः १२५४-६१] प्रथम उद्देशः ।
अत्तणि य परे चेवं, तुलणा उभय थिरकारणे वुत्ता।
पडिवजंते' सव्, करिंति सुहाए दिद्वंतं ॥ १२५८ ॥ आत्मविषया परविपया च तुलना उभयोरपि 'स्थिरताकारणे' स्थिरीकरणार्थमेवमुक्ता । गतं स्थिरत्वद्वारम् , अथ प्रतीच्छनाद्वारमाह-'पडिवजंते" इत्याद्युत्तरार्द्धम् । 'सर्वम्' अनन्तरोक्तमर्थ यदि प्रतीच्छकाः प्रतिपद्यन्ते तदा 'सुषया' वध्या दृष्टान्तमाचार्याः कुर्वन्ति ॥१२५८॥ तमेवाह
आस-रहाई ओलोयणाइ भीया-ऽऽउले अ पेहंती । सकुलघरपरिचएणं, वारिजइ समुरमाईहिं ॥ १२५९ ॥ खिसिजइ हम्मइ वा, नीणिजइ वा घरा अठाइती ।
नीया पुण से दोसे, छायंति न निच्छुभंते य ॥ १२६० ॥ 10 यथा काचिद् वधूः खकुलगृहस्य-खकीयपितृगृहस्य सम्बन्धी यः परिचयः-रमणीयवस्तुदर्शनहेवाकस्तेन अश्व-रथान् आदिग्रहणेन हम्त्यादीन् , अवलोकनं-गवाक्षस्तेन आदिशब्दाद् अपरेण वा जालकादिना भीतान् आकुलाँश्च जनान् प्रेक्षमाणा सती 'वार्यते' 'पुत्रि ! माऽवलोकिष्ठाः' इति प्रतिनिषिध्यते श्वसुरादिभिः, मा भूद् अस्याः प्रसङ्गतः परपुरुषविषयोऽप्यवलोकनहेवाक इति ॥ १२५९ ॥
15 __ यदि वारिता सती नोपरमते ततः "खिसिज्जइ" ति निन्द्यते 'आः कुलपांसने ! किमेवं करोषि ?' इत्यादि । तथापि यदि न निवर्तते ततः 'हन्यते' कशादिभिस्ताड्यते । एवमपि यदि न तिष्ठति ततोऽतिष्ठन्ती गृहान्निष्काश्यते, मा भूदपरासामपि गृहमहेलानामस्याः प्रसङ्गजनित एवंविध एव कुहेवाक इति कृत्वा । ये तु तस्याः 'निजकाः' पितृगृहसम्बद्धाः खजनास्ते 'से' तस्या दोषाँ छादयन्ति, कथञ्चिदुपालम्भप्रदानादिनाऽनाच्छादयन्तोऽपि न गृहाद् निष्काशयन्ति, 20 गौरवार्हत्वात् तत्र तस्याः ॥ १२६० ॥ एप स्नुषादृष्टान्तः । अथार्थोपनयमाह
__मरिसिजइ अप्पो वा, सगणे दंडो न यावि निच्छुभणं ।
अम्हे पुण न सहामो, ससुरकुलं चेव सुण्हाए ॥ १२६१ ॥ ते आचार्या भणन्ति-आयर्याः ! पितृगृहस्थानीयो युप्माकं खगच्छः, श्वसुरकुलस्थानीया वयम् , अश्व-रथाद्यवलोकनस्थानीयं प्रमादासेवनम् , गवाक्षादिस्थानीयान्यपुष्टालम्बनानि; ततो युप्माकं 25 'खगणे' वगच्छे प्रमादासेवनं कृतमपि 'मृप्यते' क्षम्यते, अल्यो वा 'दण्डः' प्रायश्चित्तलक्षणः प्रमादप्रत्ययो भवतां तत्र दीयते, न च महत्यप्यपराधे गच्छान्निप्कासनं गौरवार्हतया भवतां भवति वयं पुनः स्वल्पमप्यपराधं भवतां न सहामः श्वसुरकुलमिव 'सुषायाः' वध्वाः सम्बन्धिनमपराधम् इत्युक्ते यदि ते प्रतीच्छका भणेयुः---'एवमेतद् यदादिशन्ति भगवन्तः' ततस्ते प्रतीच्छयन्ते । एते च द्विधा-पार्श्वस्थादयो वा भवेयुः संविमा वा । तत्र ये पार्श्वस्थादयस्ते पार्श्वस्थादिमुण्डिता 30 वा संविनमुण्डिता वा । येऽपि संविनास्तेऽपि समनोज्ञा वा अमनोज्ञा वा ॥ १२६१ ॥ १ ते चेवं क° ता. विना ॥ २ पञ्चएणं ता० ॥ ३ मा विलो मो० ले. कां० ॥ ४ वाऽपि
समनोभा. विना ॥