________________
३८८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
आहाराई दवे, उप्पाएउं सयं जइ समत्थो । उपसम्पनानां ख
खेत्तओं विहारजोग्गा, खेत्ता विहतारणाईया ॥ १२५४ ॥ परसाम
कालम्मि ओममाई, भावे अतरंतमाइपाउग्गं । र्थ्यावेदनम्
कोहाइनिग्गहं वा, जं कारण सारणा वा वि ॥ १२५५ ॥ 5 इहाऽऽत्मतुलना चतुर्विधा- (ग्रन्थानम्-५५००) द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यत एषामुपसम्पन्नानां यद्येषणीयान्याहारादीनि खयमुत्पादयितुं समर्थः, आदिग्रहणाद् उपधिशय्यापरिग्रहः । क्षेत्रत ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राण्युत्पादयितुं शक्नोमि न वा, "विहं" इत्यध्वा तस्मात् तारणं-पारनयनम् , आदिशब्दाद् राजद्विष्टादितारणानि कर्तु
महं समर्थो न वेति ॥ १२५४ ॥ 10 काले अवमं-दुर्भिक्षं तत्र आदिग्रहणाद् अशिव-भयादौ निर्वाहयितुं शक्तोऽस्मि न वेति ।
भावे "अतरंत" त्ति ग्लानीभूतानाम् आदिशब्दाद् बाल-वृद्धादीनां वा एषां प्रायोग्यमुत्पादयितुं समर्थोऽहं न वेति, अथवा शक्नोमि क्रोधनिग्रहं कर्तुं न वेति आदिग्रहणाद् मान-माया-लोभनिग्रहपरिग्रहः, यद्वा यत् 'कारणं' ज्ञानादिकं निमित्तमुद्दिश्यैते उपसम्पद्यन्ते तस्याहं सारणां कर्तुमीशो न वेति ।। १२५५ ॥ 15 गतमात्मतुलनाद्वारम् । अथ परतुलनाद्वारमाह--
आहाराइ अनियओ, लंभो सो विरसमाइ निजूढो । उन्भामग खुलखेत्ता, अरिउहियाओ अ वसहीओ ॥ १२५६ ॥ ऊणाइरित्त वासो, अकाल भिक्ख पुरिमड्ड ओमाई ।
भावे कसायनिग्गह, चोयण न य पोरुसी नियया ॥ १२५७ ॥ 20 ते प्रतीच्छकाः प्रथममेवोच्यन्ते-द्रव्यत आहारादीनां लाभः 'अनियतः' कदाचिद् भवति
कदाचिन्नेति, योऽपि भवति सोऽपि विरसः-पुराणौदनादिः, आदिशब्दाद् अरसस्य हिग्वाद्यसंस्कृतस्य रूक्षस्य च वल्ल-चणकादेर्ग्रहणम् , सोऽपि 'नियूंढः' उज्झितप्रायः । क्षेत्रत उद्भामकभिक्षाचर्यया गन्तव्यम् , बहिामेषु भिक्षार्थं यत् पर्यटनं सा उद्धामकभिक्षाचर्या; तथा 'खुल
क्षेत्राणि' नाम यत्राल्पो लोको भिक्षाप्रदाता, सोऽपि च स्तोकमेव ददाति तत्र विहर्त्तव्यम् ; अऋ25 तुहिताश्च प्रायो वसतयः प्राप्यन्ते, यो यदा ऋतुर्वर्तते तस्य तदाऽननुकूला इत्यर्थः ॥ १२५६ ॥
कालतः कदाचिद मासकल्पस्थाने वर्षावासस्थाने वा ऊनमतिरिक्तं वा कालं कारणे वासःअवस्थानं भवेत् , कापि क्षेत्रे 'अकाले' सूत्रपौरुप्या अर्थपौरुप्या वा वेलायां भिक्षा प्राप्येत, ततः सूत्रार्थहानिरपि भाविनी, कुत्रापि पूर्वार्द्धऽपि पूर्णे अवमं-खोदरपूरकाहारमात्राया न्यून
लभ्येत, आदिग्रहणात् पानमपि सम्पद्येत । 'भावे' भावतः कषायनिग्रहः खरपरुपनोदनायामपि 30 कर्तव्यः । न च 'नियता' अवश्यम्भाविनी सूत्रार्थयोः पौरुपी, कदाचिदस्माकं धर्मकथादिव्य
ग्रतया सूत्रार्थयोाघातोऽपि भवतां भवेदित्यर्थः । तदेतत् सर्वमपि यद्यङ्गीकर्त्तमुत्सहथ ततः प्रतिपद्यध्वमुपसम्पदमिति ॥ १२५७ ॥ १°चर्यायां गन्त° भा० विना ॥