________________
भायगाथाः १२४६-५३]
प्रथम उद्देशः ।
३८७
उपसम्पद् भवति, तेन च तेषां यथाविधि प्रतीच्छना कर्त्तव्या इति । एष एक उपसम्पदः प्रकार उक्तः ॥ १२५० ॥ अथ द्वितीयं प्रकारमाह
हाणाइ समोसरणे, परियतिं सुणित्तु सो साहुं ।
अत्ति पडिचोयण, उवसंपय दीवणा अत्थे ।। १२५१ ।।
1
स्नानादौ आदिशब्दाद् रथयात्रादो 'समवसरणे' साधुमीलके “अड्डे लोए" इति व्यञ्जन-5 ददूषितं सूत्रं परिवर्त्तयन्तं साधुं कमपि श्रुत्वा स प्रतिनोदनां करोति - " अट्टे लोए" ( आचारांग श्रु० १ ० १ उ० २ ) इति पठ । स प्राह- - किम् ? इति । गीतार्थो ब्रूते - " अट्टे" इति अर्थो न मिलति । इतरः प्राह – किम् अस्यार्थोऽप्यस्ति ? । [ गीतार्थः प्राह - ] बाढम् नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थो विद्यते । स आह— यद्येवं तर्हि "अट्टि" त्ति पदस्य कोऽर्थः ? उच्यते – 'आर्त्तश्चतुर्द्धा नाम-स्थापना- द्रव्य भावभेदात्, नाम-स्थापने सुगमे, द्रव्यतः 10 सचित्तादिद्रव्यैरप्राप्तैः प्राप्तवियुक्तैर्वा य आतः स द्रव्यातः, कोधादिभिरभिभूतो भावार्त्तः, एवं प्रकारद्वयेनायं लोक आर्त्तो वर्त्तते ।' इत्याकर्ण्य प्रमुदितः स साधुश्चिन्तयति - 'अहो ! अस्य सूत्रलवस्यापीदृग् हृदयङ्गमोऽर्थस्ततो यदि सर्वस्याधीतस्यार्थमवबुध्ये ततः सुन्दरं भवति' इत्यभिसन्धायाऽर्धग्रहणार्थं तस्यैव पार्श्वे उपसम्पदं प्रतिपद्यते । ततोऽसौ विधिना तस्यार्थे दीपनं करोति, अर्थं कथयतीत्यर्थः । एष द्वितीयः प्रकारः || १२५१ ।। अथ तृतीयमपि प्रकारमाहहवा वि गुरुसमीवं, उवागए देसदंसणम्मि कए । उवसंपय साहूणं, होइ कयम्मी दिसाबंधे ।। १२५२ ।।
अथवा देशदर्शने कृते सति यदाऽसौ गुरूणां समीपमुपागतो भवति तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे 'कृते' अनुज्ञाते सति विहारं कुर्वतोऽस्य पार्श्वे प्रतीच्छकसाधूनामुपसम्पद् भवतीति ॥१२५२॥ व्याख्यातं त्रिभिः प्रकारैरुपसम्पद्वारम् । अथ स्थिरत्वद्वारमभिधातुकाम आहआयपरोभयतुलणा, चउन्विहा सुत्तसारणित्तरिया ।
15
20
तिuesडा संविग्गे, इयरे चरणेहरा नेच्छे ।। १२५३ ॥
तत्रासावात्मपरोभयविषयां तुलनां करोति । सा च प्रत्येकं चतुर्विधा वक्तव्या । तथा ये केचित् तद्गुणावर्जिता अगारिणः प्रव्रजन्ति तेषामुपसम्पन्नानां चासौ सूत्रसारणां करोति, सूत्रं पाठयतीत्यर्थः; उपलक्षणं चैतत्, तेनाऽऽसेवनाशिक्षामपि ग्राहयति । तथा तेषामुभयेषामप्यसौ 25 इत्वरां दिशं बध्नाति, यथा- - यावदाचार्याणां सकाशं व्रजामस्तावदहमेवाचार्योऽहमेवोपाध्यायः, तत्रगतानामाचार्या ज्ञायका इति । "तिण्हट्टा संविग्गि” त्ति ये संविग्नाः साधवस्ते ' त्रयाणां ' ज्ञानदर्शनचारित्राणामर्थाय उपसम्पद्यमानाः प्रत्येष्टव्याः । " इयरे चरणि" त्ति इतरे' पार्श्वस्थादयो यदि चरणार्थमुपसम्पद्यन्ते ततस्तेऽपि सङ्ग्राह्याः, “इहरा नेच्छे" त्ति इतरथा ज्ञान- दर्शननिमित्तम्, सूत्रार्थग्रहण-दर्शनप्रभावकशास्त्राध्ययनार्थमिति भावः, यद्युपसम्पद्यन्ते ततः 'नेच्छेत्' नोपसम्पदं 30 माहयेदित्यर्थः ॥ १२५३ ॥
अथ यदुक्तम् “आत्मपरोभयतुलना चतुर्विधा " इति तत्रात्मतुलनां तावद् भावयति - १ 'स्यार्थदी' त० डे० कां० ॥ २ पुणरवि गुरुस्समीवं ता० । चूर्णिकृताऽयमेव पाठ आदृतः ॥
उपसम्पनानां
स्थिरत्वम्