________________
उपसम्पदः प्रकाराः
10
३८६
सनियुक्ति-लघुभान्य-वृत्तिके वृहत्कल्पसूत्रे
वा धारयन्तीति वरलक्षणधराः सत्पुरुषाः प्रकटा न भवन्ति ? || १२४५ ॥ अत्र परोऽनुपपत्तिमुद्भावयन्नाह
उदए न जल अग्गी, अन्भच्छन्नो न दीसई चंद्रो । मुक्खे महाभागा, विजापुरमा न भायंति ।। १२४६ ॥
5 उदके न ज्वलत्यग्निः किन्तु विध्यायति, अभ्रच्छन्नश्चन्द्रो न दृश्यते, 'मूर्खेषु' मूर्खाणां पुरतो महाभागा विद्याप्रधानाः पुरुषा विद्यापुरुषास्तेऽपि 'न भान्ति' न शोभन्ते; ततः “कत्थ व न जलइ अग्गी” (गा० १२४५ ) इत्यादि नोपपद्यते, तदयुक्तम्, अभिप्रायापरिज्ञानात्, इह हि स्वविषय एवाग्नि-चन्द्र-सत्पुरुषाणां ज्वलनादि सामर्थ्यं चिन्त्यते न त्वविषये ।। १२४६ ॥ कः पुनरमीषां स्वविषयः ? इत्याह
सुकिंधणम्मि दिप्पड़, अग्गी मेहरहिओ ससी भाइ ।
व्हिजणेय निउणे, विजापुरिमा वि भायंति ।। १२४७ ।।
'शुन्धने' शुष्ककाष्ठा दीप्यतेऽग्निः, 'मेघरहितः ' शरदादिकालेऽभैरच्छन्नः शशी 'भाति' प्रकाशते, 'तद्विधजने च ' तादृशे सहृदयलोके 'निपुणे' व्याकरण- प्रमाणादिशास्त्रकुशले विद्यापुरुषा अपि 'भान्ति' शोभां लभन्ते । एष त्रयाणामप्यमीषां स्वविषयः, अत्र च सर्वत्राप्यमी 15 दीप्यन्ते, अतो न किञ्चिदनुपपन्नम् ॥ १२४७ ॥ अत्रैवापरं दृष्टान्तमाहकुमुओयररसमुद्धा, किं न विवोहिंति पुंडरीयाई ।
सूरकिरणा सस्सिव, कुमुयाणि अपंकयरसन्ना ।। १२४८ ॥ न य अपगासगत्तं, चंदा -ऽऽइच्चाण सविसए होइ ।
इय दिप्पंति गुणड्डा, मुक्खेसु हसिजमाणा वि ।। १२४९ ॥ कुमुदानामुदराणि कुमुदोदराणि तेषु रसः - मकरन्दः तस्मिन् मुग्धाः - अनभिज्ञाः, तदानीं तेषामप्रबुद्धत्वाद् ईदृशोऽमीषां मकरन्द इति न विदन्तीत्यर्थः ; एवंविधाः सूर्यकिरणा यद्यविषयत्वात् कुमुदानि न विबोधयन्ति ततः किं स्वविषयभूतानि पुण्डरीकाणि न विबोधयन्ति ? बोधयन्त्येव । शशिनो वा किरणा यदि 'अपङ्कजरसज्ञाः पङ्कजरसाखादमुग्धास्ततः किं स्वविषयभूतानि कुमुदानि नबोधयन्ति ? । ततश्च 'न च' 'नैवाऽप्रकाशकत्वं चन्द्रा - ऽऽदित्ययोः स्वविषये भवति किन्तु 25 प्रकाशकत्वमेव, 'इति' अमुनैव प्रकारेण गुणैः- ज्ञानादिभिराढ्याः - समृद्धाः 'मूर्खेषु' पशुप्रायेषु हस्यमाना अपि 'दीप्यन्ते' सहृदयहृदयेषु प्रकाशन्ते ।। १२४८ ।। १२४९ ॥ उक्तमानुषङ्गिकम् । प्रकृतमनुसन्धीयते
20
[ मासकल्पप्रकृते सूत्रम् १
सो चरणसुट्ठियप्पा, नाणपरो सहओ अ साहूहिं ।
उवसंपया य तेसिं, पडिच्छणा चेव साहूणं ॥ १२५० ।।
30
'सः' इति भविष्यदाचार्यः चरणसुस्थितात्मा तथा 'ज्ञानपर : ' सूत्रा - ऽर्धपौरुपीकरणं प्रति उद्युक्तः परां निष्ठां प्राप्तो वा, दर्शनाविनाभावित्वाद् ज्ञानस्य दर्शनपर इत्यपि द्रष्टव्यम्, सच साधुभिः स्वपरिवारवर्त्तिभिरपरेषां साधूनां पुरतः 'सूचितः ' श्लाघितः ततस्तेषां साधूनां तस्यान्तिके
१ ततः 'किम्' इति काक्वा प्रश्ने, किं स्व° भा० ॥ २ 'मूर्खे:' पशुप्रायैः हस्य भा० ॥