________________
भाष्यगाथाः १२४०-४५ ]
प्रथम उद्देशः ।
अथ विस्तरार्थं विभणिषुः प्रथमद्वारमधिकृत्याह -
काहिइ अव्वोच्छित्तिं, सुत्त -त्थाणं ति 'सो तदट्ठाए । अभिगम्मइ पेगेहिं, पडिच्छएहिं विहरमाणो ॥। १२४२ ॥ एष महाभागः सूत्रार्थयोरव्यवच्छित्तिं करिष्यतीति बुद्ध्या 'सः' भव्याचार्यः 'तदर्थं ' सूत्रार्थ - ग्रहणनिमित्तमभिगम्यतेऽनेकैः प्रतीच्छकैः 'विहरमाण:' देशदर्शनं कुर्वन्निति ॥ १२४२ ॥ 5 आह किमसौ डिण्डिमाडम्बरेण घोषयति यथा 'अहं बहुश्रुतोऽहं बहुश्रुतः' इति यदेव - मनेकैः प्रतीच्छकैरभिगम्यते ?, नैवम्, न खलु सद्विवेकसुधाधाराधौतचेतसः सन्तः सन्तः कदाचनापि स्वगुणविकत्थने प्रवृत्तिमातन्वते, मिथ्याभिमानाख्यप्रबलतमतमस्तिरस्कृतसज्ज्ञानलोचनप्रसराणामितरजन्तूनामेव तत्र प्रवृत्तिसम्भवात् । उक्तञ्च
मोहस्य तदपि विलसितमभिमानो यः परप्रणीतायाः । तत् तमसोऽपि तमिस्रं, याऽऽत्मस्तुतिरात्मना क्रियते ॥ यद्येवं ततः कथमिवासावेवमेव प्रसिद्धिमारोहति ? इति उच्यतेवासावजविहारी, जड़ वि य न विकंथए गुणे नियए । अभणतो वि मुणिज, पगइ च्चिय सा गुणगणाणं ।। १२४३ ॥ वर्षावर्जविहारी, वर्षासु चतुरो मासानेकत्रस्थायी अन्यदा पुनरनियतविहारीत्युक्तं भवति । स 15 एवंविधो यद्यपि न विकत्थते 'निजकान्' आत्मीयान् गुणान् तथापि 'अभणन्नपि' खगुणान् अकीर्त्तयन्नपि ज्ञायते । कुतः ? इत्याह- प्रकृतिरेव सा 'गुणगणानां' ज्ञानादिगुणसमूहानाम् । तदुक्तम्
-
३८५
अभणता विहु नजंति सुपुरिसा गुणगणेहिं नियएहिं । किं बोलंत मणीओ, जाओ लक्खेहिं धिप्पंति ? ॥ एतदेवान्योक्तिदृष्टान्तेन द्रढयति
उपसम्पत्
10
॥ १२४३ ॥ २७
भमरेहिं महुयरीहिं य, सहज अप्पणो य गंधेणं । पाउस कालकलंबो, जइ वि निगूढो वणनिगुंजे ॥। १२४४ ॥
इह किल कदम्बकवृक्षाः प्रावृषि जलधरधाराभिहताः पुष्पन्ति । ततः प्रावृट्काले यः कदम्बः स यद्यपि वननिकुञ्जे ‘निगूढ : ' गुप्तस्तिष्ठति तथापि भ्रमरैर्मधुकरीभिश्चात्मनः सम्बन्धिना गन्धेन 25 'च प्रसरता 'सूच्यते' ज्ञाप्यते यथा 'अत्र कदम्बवृक्षस्तिष्ठति' । एवमयमपि भ्रमर - मधुकरीकल्पाभिः साधु-साध्वीभिः परिमलकल्पेन च निजगुणनिकुरम्बेन प्रसर्पता कदम्बवद् उद्यानादावत्यन्तनिगूढोऽपि तिष्ठन् सूच्यते ॥ १२४४ ॥ यदि वा
30
कत्थ व न जलइ अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ वरलक्खणधरा, न पायडा होंति सप्पुरिसा ।। १२४५ ।। कुत्र वा 'न ज्वलति' न दीप्यतेऽग्निः ? कुत्र वा चन्द्र उदयप्राप्तः प्रकटो न भवति ? कुत्र वा वराणि- उत्तमानि लक्षणानि - अभ्यन्तरतो ज्ञानादीनि बाह्यतः शरीरसौन्दर्यादीनि शङ्ख-चक्रादीनि
१ सो य उट्ठाए ? ता० ॥
भविष्यदाचार्यस्य प्रसिद्धिः