________________
३८४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ इति यत्र नावमारोप्य धान्यमानीतमुपभुज्यते, यथा काननद्वीपे । "वणि" ति यत्र वाणिज्येनैव वृत्तिरुपजायते न कर्षणेन, यथा मथुरायाम् । “मंस" त्ति यत्र दुर्भिक्षे समापतिते मांसेन कालोऽतिवाह्यते । तथा यत्र पुष्प-फलभोगी प्राचुर्येण लोकः, यथा कोङ्कणादिषु । तथा कानि विस्तीर्णानि क्षेत्राणि ? कानि वा सङ्क्षिप्तानि ? । "कप्पे" त्ति कस्मिन् क्षेत्रे कः कल्पः ?, यथा सिन्धुविषयेऽनिमिषाद्याहारोऽगर्हितः । “विहि" त्ति कस्मिन् देशे कीदृशः समाचारः ? यथा सिन्धुषु रजकाः सम्भोज्याः, महाराष्ट्रविषये कल्पपाला अपि सम्भोज्या इति ॥ १२३९ ॥ अपि च
सज्झाय-संजमहिए, दाणाइसमाउले सुलभवित्ती।
कालुभयहिए खेत्ते, जाणइ पडणीयरहिए य ॥ १२४०॥ 10 स्वाध्यायहितं यत्राखण्डे सूत्राऽर्थपौरुप्यौ भवतः । संयमहितं-स्त्रीदोषरहितमल्पबीज-हरितादि
वा । "दाणाइ" ति दानश्राद्धैः आदिग्रहणादभिगमश्राद्धैर्वा समाकुलम् । अत एव सुलभा-सुप्रापा वृत्तिः-प्राणवर्तनहेतुराहारसम्पत्तिर्यत्र तत् सुलभवृत्तिकम् , तथा किमिदमागन्तुकभद्रकम् ? उत वास्तव्यभद्रकम् ? इत्याद्युपलक्षणाद् द्रष्टव्यम् । “कालुभयहिए खेते" त्ति अमूनि वर्षावासप्रायोग्याणि अमूनि ऋतुबद्धकालयोग्यानीत्युभयकालहितानि क्षेत्राणि जानाति । तथा प्रत्यनीकः15 साध्वादीनामुपद्रवकारी तद्रहितानि च क्षेत्राणि सम्यग् जानातीति ॥ १२४० ॥
गतं जनपदपरीक्षाद्वारम् । यस्मादेते गुणास्तस्मादवश्यं देशदर्शनं कर्त्तव्यम् । गतं “पबज्जा सिक्खावय" (गा० ११३२ ) इत्यादिमूलद्वारगाथाप्रतिबद्धमनियतवासद्वारम् । अथ निप्पत्तिद्वारम् । तच्चानन्तरोक्तेऽनियतवासद्वारे वक्ष्यमाणे विहारद्वारे च सम्भवति । तत्रानियतवासद्वारे तावद् दर्यते-इत्थं तेन देशदर्शनं कुर्वता शिप्याः प्रतीच्छकाश्च सामाचार्यां सूत्राऽर्थग्राहणायां 20 च निष्पादयितव्या इत्यत्रान्तरे यदुक्तं प्रतिद्वारगाथायां "काउ सुयं दायत्वं, अविणीयाणं विवेगो य।" (गा० १२२६) तदिदानीमभिधित्सुरगाथामाह---
__उवसंपज थिरतं, पडिच्छणा वायणोल्लछगणे य । निष्पत्तिद्वारम्
घट्टण-रुंचण-पत्ते, दुहासें तहिं गए राया ॥ १२४१॥ प्रथमं प्रतीच्छका यथा तमुपसम्पद्यन्ते तथा वक्तव्यम् । तत आत्मनः प्रतीच्छकानां च यथा 26 स्थिरत्वं तुलनया करोति । ततस्तेषां प्रतीच्छना वाचना च यथा भवति । ततः प्रमाद्यतां आईच्छगणदृष्टान्तो घट्टना रुञ्चना पत्रदृष्टान्ताश्च यथाऽभिधीयन्ते । दुष्टाश्वविषयं दृष्टान्तं यथा साधव आचार्यानुद्दिश्य दर्शयन्ति । "तहिं गए" त्ति यत्राऽऽचार्यास्तिष्ठन्ति तत्र गतानां यथा राजदृष्टान्तः सूरिभिरुदाहियते । तदेतत् सर्वं वक्तव्यमिति द्वारगाथासमासार्थः ॥ १२४१॥ . १ "मंस त्ति जत्थ मंसेण दुभिक्खे लंघिज्जति कालो, जधा सिंधूए सुभिक्खे वि । पुप्फ त्ति जधा पुप्फविक्कएणं वित्ती भवति, एवं फलविक्कएण वि; अधवा पुप्फफलभोयणं जत्थ, जधा तोसलि-कोङ्कणेसु" इति चूर्णौ ॥ २ “विहि त्ति कम्मि देसे केरिसो आयारो ? जधा सिंधूए णिल्लेवगा संभोइया” इति चूर्णौ । “विहि त्ति जम्मि देसे जो जारिलो आयारो, जधा सिंधुविसए वियडभायणेसु पाणयं अगरहितं भवति, कच्छविसए गिहत्यसंसट्टे वि उवस्मए वसंताणं नत्थि दोसो” इति विशेपचूर्णौ ॥ ३ °ला असम्भो° भा० मो० ले० ॥