________________
भाष्यगाथाः १२३१-३९]
प्रथम उद्देशः ।
३८३
आदिशब्दाद् मन्त्राश्च ३ इति त्रयोऽतिशयाः । तत्र विद्या स्त्रीदेवताधिष्ठिता पूर्वसेवादिप्रक्रिया - साध्या वा, योगाः पादलेपप्रभृतयो गगनगमनादिफलाः, मन्त्राः पुरुषदेवताधिष्ठिताः पठितसिद्धा वा । यद्वा विद्या योगाः चशब्दाद् मन्त्राश्च श्रुते एव 'विशन्ति' अन्तर्भवन्ति, अतो द्विविधा अतिशया भवन्ति - सूत्रार्थातिशयाः सामाचार्यतिशयाश्चेति । एषामतिशयानामुपलब्धिरपूर्वाचार्य पर्युपासनायां भवति || १२३५ || अथ सामाचार्याी अतिशयं विभावयिपुराह--- निक्खमणे य पवेसे, आयरियाणं महाणुभावाणं ।
सामाया कुसलो, अ होइ गणसंपवेसेणं ।। १२३६ ॥
स देशदर्शनं कुर्वाणस्तेषु तेषु नगरादिषु बहुश्रुतानामाचार्याणां महानुभावानां सम्बन्धी यो गणः–गच्छस्तन्मध्ये यः सम्यग् - एकीभावेन एकत्रावस्थानलक्षणेन प्रवेशस्तेन बहुशो गणान्तरेषु निष्क्रमणे प्रवेशे च सामाचारीकुशलो भवति ।। १२३६ ॥ कथम् ? इत्याहआगंतुसाहुभावम्मि अविदिए धन्नसालमाइठिया ।
उप्पत्तियाउ थेरा, सामायारीउ ठाविंति ।। १२३७ ॥
आगन्तुकाः- प्राघुणका उपसम्पन्ना वा तेषां साधूनां भावे 'अविदिते' 'कीदृशेनाभिप्रायेणाssगताः ? के वाऽमी ?' इत्यपरिज्ञाते केचित् 'स्थविरा:' आचार्याी धान्यशालायाम् आदिशब्दाद् घृतशालादिषु च स्थिताः ‘'औत्पत्तिकी:' अनुत्पन्नपूर्वाः सामाचारी ः स्थापयन्ति ॥ १२३७ || 15 कथम् ? इत्याह
---
5
10
सव्वे वि पडिग्गहए, दंसेउं नीह पिंडवायट्ठा ।
अहिमरमायासंका, पडिलेहेउं व पविसंति ।। १२३८ ।।
ते आचार्याः ‘पिण्डपातार्थं' भिक्षानिमित्तं साधून् निर्गच्छतो भणन्ति - आर्याः ! सर्वेऽपि प्रतिग्रहान् दर्शयित्वा निर्गच्छत, अदर्शितप्रतिग्रहैर्न गन्तव्यम् । कुत इत्थं कुर्वन्ति : इत्याह - 20 ‘अभिमराद्याशङ्कया' मा कश्चिदभिमर उदायिनृपमारकवत् श्रमणवेषेणाऽऽगतो भवेत्, आदिग्रहणेन चौरो वा मा धान्यादिमोषणायाऽऽगतो भवेदित्याद्याशङ्कयाऽपूर्वी सामाचारीं स्थापयन्ति । भिक्षाप्रतिनिवृत्ता अपि च गुरूणां पुरतः सर्वं प्रत्युपेक्ष्य ततः प्रविशन्ति, तैरेवाभिमरादिभिः कारणैरिति ॥ १२३८ ॥ गतमतिशयद्वारम् । अथ जनपदपरीक्षाद्वारमाह
१ एतेषा त० डे० मो० ० ॥ २ भागाणं ता० ॥ ३ 'वानां ये गणाः गच्छास्त भा० ॥ ४ “उत्तरापधे अरघहिं” इति चूर्णो ॥ ५ एतचिह्नमध्यगतः पाठः मो० ले० पुस्तकयोरेव दृश्यते ॥
अब्भे नदी तलाए, कुबे अइपूरए य नाव वणी ।
मंस-फल- पुप्फभोगी, वित्थिने खेत कप्प विही ॥। १२३९ ।।
स देशदर्शनं कुर्वन् जनपदानां परीक्षां करोति — कस्मिन् देशे कथं धान्यनिप्पत्तिः ? । तत्र क्वचिद् देशेऽभ्रैः सस्यं निप्पद्यते वृष्टिपानीयैरित्यर्थः, यथा लाटविषये । क्वापि नदीपानीयैः, यथा सिन्धुदेशे । क्वचित्तु तडागजलैः, यथा द्रविडविषये । क्वापि कूपपानीयैः, यथा उत्तरापथे । कचिदतिपूरकेण, यथा बन्नासायां पूरादवरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमौ 30 धान्यानि प्रकीर्यन्ते; √ यैथा वा डिम्भरेल के महिरावणपूरेण धान्यानि वपन्ति । "नाव"
25