________________
15
३८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १
पियधम्मध्वजभीरू, साहम्मियवच्छलो असढभावो ।
संविग्गावेइ परं, परदेसपवेसणे साहू ॥ १२३१ ॥ नानाप्रकारा-मगध-मालव-महाराष्ट्र-लाट-कर्णाट-द्रविड-गौड-विदर्भादिदेशभवा या देशीभाषा तस्यां कुशलः सन् 'नानादेशीकृतस्य नानादेशभाषानिबद्धस्य सूत्रस्य अभिलापे-उच्चारणे 5 अर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थ गन्तव्यम् ॥ १२२९॥ तथा
नञः कुत्सार्थत्वात् कुत्सिता-अव्यक्तवर्णविभागा भाषा येपां तेऽभाषिकास्तेषामप्यसौ धर्म कथयति, निःशेषदेशभाषानिष्णातत्वात् । अभाषिकाँश्चापि तद्देशभाषया प्रतिबोध्य प्रव्राजयति । सर्वेऽपि च शिष्याः 'तत्र' आचार्ये प्रीतिं बध्नन्ति, स्वभाषिकः ‘णे' अस्माकम् अयमिति कृत्वा
॥ १२३० ॥ तथा10 'प्रियधर्मा' धर्मश्रद्धालुः, अवयं--पापकर्म तस्माद् भीरुरवद्यभीरुः, साधर्मिकाः-साधवस्तेषां
वत्सलो द्रव्यतो भक्त-पानादिना भावतस्तु म्खलितादिपु सारणादिना, 'अशठभावः' मातृस्थानरहितः, एवंविधोऽसौ साधुः परदेशप्रवेशने वर्तमानः 'परम्' अन्यं संयमयोगेषु सीदन्तमपि 'संविग्नयति' सदुपदेशदानादिना संविग्नं करोतीति ॥ १२३१ ।। गतं देशद्वारं देशप्रवेशद्वारं वा । अथातिशयद्वारमाह
सुत्त-ऽत्थथिरीकरणं, अइसेसाणं च होइ उवलद्धी ।
आयरियदंसणेणं, तम्हा सेविज आयरिए ॥ १२३२ ॥ आचार्याणां दर्शनेन सेवनेनेति यावत् सूत्रार्थस्थिरीकरणमतिशयानां च अपूर्वाणाम् 'उपलब्धिः' प्राप्तिर्भवति । यत एवं तस्मात् 'सेवेत' पर्युपासीताऽऽचार्यान् ॥ १२३२ ॥ एतदेव व्याख्यानयति
उभए वि-संकियाई, पुचि जाई सि पुच्छमाणस्स ।
होइ जओ सुत्तत्थे, बहुस्सुए सेवमाणस्स ॥ १२३३ ।। 'उभये' सूत्रेऽर्थे च यानि पूर्वं 'से' तस्य शकितानि पदानि तानि आचार्याणां समीपे पृच्छतो निःशङ्कितानि जायन्ते । एवं च बहुश्रुतान् सेवमानस्य 'जयः' सूत्रार्थविषयोऽभ्यासातिशयो भवति, अतो बहुश्रुतपर्युपासनं विधेयम् ॥ १२३३ ॥ अपि च
भवियाइरिओ देसाण दंसणं कुणइ एस इय सोउं ।
अन्ने वि उजमंते, विणिक्खमंते य से पासे ॥ १२३४ ॥ ___ 'भव्याचार्य एष देशानां दर्शनं करोति' इति श्रुत्वा 'अन्येऽपि' पर्युपास्यमानाचार्यसम्बन्धिनः शिप्याः 'उद्यच्छन्ते' सूत्रार्थग्रहणादौ उद्यमं कुर्वन्ति । गृहिणोऽपि च तद्गुणग्रामरञ्जितमनसः 'विनिष्कामन्ति' दीक्षां प्रतिपद्यन्ते 'से' तस्य भविष्यदाचार्यस्य पार्थे इति ॥ १२३४ ॥ अतिशयानामुपलब्धिः कथं भवति ? इत्याह
सुत्तत्थे अइसेसा, सामायारी य विज जोगाई।
विजा जोगा य सुए, विसंति दुविहा अओ होंति ॥ १२३५॥ इहातिशयास्त्रिविधाः, तद्यथा-सूत्रातिशयाः १ सामाचार्यतिशयाः २ विद्या-योगाः १°कारमग डे० त० ॥ २ विजा-जोगाइ सुए ता० विना ॥
25
30