________________
सनियुक्ति लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ विनेय आचार्यपदयोग्यः स नियमाद् द्वादश वर्षाणि देशदर्शनं कारयितव्यः । शिष्यः पृच्छति-तेन द्वादश वर्षाणि सूत्रग्रहणं कृतं द्वादशभिर्वरैर्थः समग्रोऽपि गृहीतः, अतो देश
दर्शनेन विना किमिवास्य न सिध्यति ? इति उच्यते-- अनियत
जइ वि पगासोऽहिगओ, देसीभासाजुओ तहा वि खलु । वासद्वारम् ।
उंदुय सिया य वीसुं, एरगमाई य पच्चक्खं ॥ १२२३ ॥ यद्यपि तेन 'प्रकाशः' अर्थः सूत्रस्य 'अधिगतः' सम्यग् विज्ञातस्तथापि 'खलु निश्चयेनासो विनेयो देशदर्शनेन देशीभाषायुतः कर्तव्यः । कुतः ? इत्याह-"उंदुय" इत्यादि । 'उन्दुकम्' इति स्थानम् । "सिय" ति स्यात्शब्दो भवत्यर्थे आशङ्कायां भजनायां वा । तत्र भवत्यर्थे सुप्रसिद्धः । आशङ्कायां यथा- “दव्वथओ भावथओ दव्वथओ बहुगुण त्ति बुद्धि सिया।" (आव० 10 भा० १९२) भजनायां यथा--"सिय तिभागे सिय तिभागतिभागे" (प्रज्ञा०प० ६ पत्र
२१६-२) इत्यादि । “वीसुं" ति विप्वक् पृथगित्यर्थः । ‘एरका' गुन्द्रा भद्रमुस्तक इत्यर्थ एते आदिग्रहणात् पयः पिच्चं नीरमित्यादयश्च शास्त्रप्रसिद्धाः शब्दास्तेषु तेषु देशेषु लोकेन तथातथा व्यवहियमाणा देशदर्शनं कुर्वता 'प्रत्यक्षम्' इति प्रत्यक्षत उपलभ्यन्ते ॥ १२२३ ॥ आह यद्यसौ तान् प्रत्यक्षतो नोपलभेत ततः का नाम न्यूनता भवेत् ? उच्यते
जो वि पगासो बहुसो, गुणिओ पञ्चक्खओ न उवलद्धो । ___ जचंधस्स व चंदो, फुडो वि संतो तहा स खलु ॥ १२२४ ॥ योऽपि 'प्रकाशः' अर्थों बहुशः 'गुणितः' स्वभ्यस्तीकृतः परं न प्रत्यक्षत उपलब्धः स जात्यन्धस्येव चन्द्रः स्फुटोऽपि सन् ‘खलुः' अवधारणे तथैवास्फुट एव मन्तव्यः । इदमत्र हृदयम्-यथा चन्द्रः प्रकटोऽपि साक्षाद्दर्शनं विना जात्यन्धस्य न परिस्फुटाकारः प्रतिभासते एव20 मस्यापि शास्त्रानुसारतः प्रकटा अपि प्रत्यक्षदर्शनमन्तरेण न परिस्फुटा व्यवहारोपयोगिनोऽर्थाः प्रतिभासन्ते ॥ १२२४ ॥ यतश्चैवं ततः
आयरियत्तअभविए, भयणा भविओ परीइ नियमेणं ।
अप्पतइओ जहन्ने, उभयं किं चाऽऽरियं खेत्तं ॥ १२२५ ॥ आचार्यत्वस्य-आचार्यपदस्य अभव्यः-अयोग्यस्तस्मिन् 'भजना' अर्थग्रहणानन्तरं देशदर्शनं 25 कार्यते वा न वा, यस्तु 'भव्यः' आचार्यपदयोग्यः स नियमेन 'पर्येति' देशदर्शनाय पर्यटति । स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः । किञ्च 'उभयम्' इति किं ऋतुबद्धकालपायोग्यमिदं क्षेत्रम् ? उत वर्षावासयोग्यम् ? तथा किमेतद् 'आर्य' सार्द्धपञ्चविंशतिजनपदमध्यवर्ति ? आहोश्चिदनार्यम् ? एतत् सर्वमपि देशदर्शनं विदधानो जानाति ॥ १२२५ ॥
अथ देशदर्शनस्यैव गुणान्तराभिधित्सया द्वारगाथामाह१°काशः' सूत्रार्थः 'अ° भा० ॥ २ यथा जात्यन्धस्य चक्षुष्मदुपदेशेन 'लोचनानन्ददायी सौम्यः शशी भवति' इत्यादिकं स्वरूपं जानतोऽपि दर्शनमन्तरेण न परिस्फुटाकारश्चन्द्रः प्रतिभासते एवमस्यापि गुरूपदेशानुसारतः शास्त्रार्थमववुध्यमानस्यापि प्रत्यक्षदर्शनमन्तरेण भा० पुस्तके ॥