________________
10
भाप्यगाथाः १२२०-२२] प्रथम उद्देशः ।
'हीनम्' इति हीनाक्षरं यैरक्षरैर्विना सूत्रस्यार्थो न पूर्यते, 'अधिकम्' इत्यधिकाक्षरम् , एवंविधं यत् पूर्वमजानता सूत्रमधीतं तस्यार्थं सम्यगवगम्य हीनं प्रतिपूरयति अधिकं परित्यजतिः ।। जिनकल्पिकसूत्रं यथा
तेगिच्छं नाभिनंदिजा, संचिक्खऽत्तगवेसए ।
एवं खु तम्स सामन्नं, जं न कुज्जा न कारवे ॥ (उत्त० अ० २ गा० ३३)5 स्थविरकल्पिकसूत्रं यथा- भिक्खू अ इच्छिज्जा अन्नयरिं तेगिच्छि आउंटित्तए । अथवा जिनकल्पिक-स्थविरकल्पिकयोः सामान्यसूत्रमिदम्---
"संसट्टकप्पे ण चरिज भिक्खू" (दश० चू० २ गा० ६)। आर्यासूत्रं यथा--"कप्पइ निग्गंथीणं अंतोलित्तं घडिमत्तयं धारित्तए' (उ० १ सू० १६)॥ "कालि" त्ति कालविषयं किमपि सूत्रं भवति, यथा अनागतं कालमङ्गीकृत्य"न या लभेजा निउणं सहायं, गुणाहियं वा गुणओ समं वा ।
(दश० चू० २ गा० १०) इत्यादि। "वयणाई" ति 'वचनम्' एक-द्वि-बहुवचनादिकं पोडशधा यथा पीठिकायाम् (गा० १६४), तत्प्रतिपादकं सूत्रं यथा आचाराङ्गे भापाध्ययने
एगवयणं वयमाणे एगवयणं वएज्जा, दुवयणं वयमाणे दुवयणं वएज्जा, बहुवयणं वयमाणे 15 बहुवयणं वएज्जा, इत्थीवयणं वयमाणे इर्थावयणं वएज्जा । (पत्र ३८६-१) इत्यादि ।
आदिशब्दाद् भयसूत्रादिपरिग्रहः । इत्थमनेकधा सूत्राणां सम्भवे तदर्थश्रवणमन्तरेण न शक्यते "कीदृशम् ?' इति विवेकः कर्तुमिति कर्त्तव्यमर्थग्रहणम् ॥ १२२१॥ __ अथ ते शिप्या ब्रूयुः---'यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्वाद बहुपरिक्लेशेन "मज्जण निसिज्ज अक्खा" (गा० ७७२) इत्यादिप्रक्रियापुस्स्सस्मर्थ- 20 ग्रहणप्रयासेन?' इति, ते इत्थंब्रुवाणाः प्रज्ञापयितव्याः । कथम् ? इत्याह
जे सुत्तगुणा खलु लक्खणम्मि कहिया उ सुत्तमाईया ।
अत्थग्गहणमराला, तेहिं चिय पनविनंति ॥ १२२२ ॥ पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः “निद्दोसं सारवंतं च" (गा० २८२) इत्यादिना कथिताः, यद्वा "सुत्तमाईय" ति "सुतं तु मुत्तमेव उ" (गा० ३१०) इत्यादिना प्रतिपा- 25 दिताः, 'तेरेव' हेतुभिरर्थग्रहणे मरालाः-अलसाः शिप्याः प्रज्ञाप्यन्ते । यथा-भो भद्राः ! निर्दोप-सारवद-विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति, ते च यथाविधि गुरुमुखादर्थे श्रूयमाण एव प्रकटीभवन्ति । किञ्च यथा द्वासप्ततिकलापण्डितो मनुप्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां जानीते एवं सूत्रमप्यर्थेनाऽबोधितं सुप्तमिव द्रष्टव्यम् । विचित्रार्थनिबद्धानि सोपस्काराणि च सूत्राणि भवन्ति, अतो गुरुसम्प्रदायादेव यथावदवसीयन्ते न यतस्ततः । इत्थं युक्तियुक्तैर्वचोभिः 30 प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेशम् , गृह्णन्ति द्वादश वर्षाणि विधिवदर्थमिति ॥ १२२२ ॥ गतमर्थग्रहणद्वारम् । अथानियतवासद्वारम्-तत्रार्थग्रहणे समापिते सति यो १°कल्पस्थ त० डे० ॥